आश्रमस्य अधीने आकेरलं ३२ विद्यालयाः सन्ति । मातुः निर्देशानुसारं तेषु विद्यालयेषु छात्राणां कृते सम्भाषणवर्गाः निश्चिताः । प्रशिक्षिताः ब्रह्मचारिण्यः एतान् वर्गान् चालितवत्यः । साम्प्रतं पारिपल्ली, पुल्पल्ली, एडपल्ली, मानन्तवाटी इति स्थानचतुष्टये वर्गाः अभवन् । पठनकेळिः इति नाम्ना आयोजिताः एते दिनद्वयात्मकवर्गाः अतीव स्वीकार्यतां प्राप्तवन्तः । ये छात्राः द्वितीयभाषारूपेण संस्कृतं न पठन्ति स्म तेऽपि वर्गानन्तरं संस्कृतं प्रति परिवर्तयितुं न केवलं इच्छां प्रकटीकृतवन्तः अपि तु गृहेषु उक्त्वा तत् साधितवन्तः । एतत् वर्गस्यास्य प्रभावं सूचयति
परं अस्याः भाषासपर्यायाः अनुरणनानि अत्र न समाप्तानि । मठस्थे मुद्रणालये कार्यागारे च कार्यं कुर्वत्यः सामान्याः ग्रामस्थाः महिलाः मठे संस्कृतभाषणं श्रुत्वा प्रभाविताः । ताः अवदन् – अस्मान् अस्माकं बालान् च कस्मात् भवन्तः संस्कृतं न पाठयन्ति? इति । कुतो विलम्बः ? सम्भाषणशिबिरं बालकेन्द्रं च कर्तुं अचिरात् प्रयत्नाः आरब्धाः ।
अत्रान्तरे मठस्य अधीने प्रचलत् अमृता-आयुर्वेदमहाविद्यालयस्य छात्राणां निमित्तं दिनत्रयात्मिका काचित् कार्यशाला अभवत् । संस्कृत व्याकरणे तेषां प्रायोगिकज्ञानस्य वर्धनं संस्कृतमाध्यमेन वैद्यकीय- शास्त्राध्ययनं इत्येतत् लक्ष्यीकृत्य इदम् प्रवृत्तम् । १५० छात्राः भागं स्वीकृतवन्तः । प्रान्तीय-उपाध्यक्षः श्री वि. जे. श्रीकुमारः समारोपभाषणं कृतवान्
अग्रे एषा पद्धतिः अनवरतं चलतु इति धिया प्रशिक्षितानां गीतासोपानवर्गाः अनुवर्तन्ते । तथैव पत्रालयद्वारा संस्कृतं शताधिकाः पठन्तः सन्ति (५० विदेशीयाः) । अधुना अमृतविश्वविद्यालयस्य अमृतपुरी परिसरे शिबिरत्रयं प्रचलति
एरणाकुलं जनपदे विद्यमाने अमृता आतुरालयेऽपि समानकाले गीताशिक्षणकेन्द्रस्य आरम्भः कृतः । तत्र वैद्याः तथा अन्ये कार्यालयकर्मचारिणः च शिक्षार्थिनः आसन् । तदनु तत्र एप्रिल् मासे दिनचतुष्टयात्मकः अभ्यासवर्गः आयोजितः । तत्र नूतनाः अपि शिक्षार्थिरूपेण आगताः । जून् मासे आतुरालये संस्कृतपुस्तकप्रदर्शनी अभवत् । तदनन्तरम् आतुरालयस्य मुख्यद्वारे एव स्थायीरूपेण पुस्तकापणः व्यवस्थापितः जातः । त्रिंशत् जनाः तत्र पत्रालयद्वारा संस्कृतं पठन्ति । जून्- जूलै मासयोः तत्र शिबिरत्रयं प्राचलत् । आतुरालयस्य कर्मचारिणः एव प्रशिक्षणं प्राप्य शिबिरं चालितवन्तः इति विशेषः । स्थिररूपेण अत्र गणशः साप्ताहिकवर्गाः अपि चलन्ति ।
एड्स्रोगबाधितानां चिकित्सार्थं मठस्य अधीने तिरुवनन्तपुरे यत् केन्द्रं प्रचलति तत्र रुग्णानां निमित्तं शिबिरस्य आयोजनं जातम् । संस्कृत-सप्ताहावसरे अमृता-आयुर्वेद महाविद्यालये संस्कृतशास्त्रप्रदर्शनी नूतन-छात्राणां शिबिरं च भविता ।
एवं मठे सम्भाषणशिबिरारम्भतः केवलं अष्टमासाभ्यन्तरे शिक्षणकेन्द्रं तदनन्तरं उपषष्टि प्रशिक्षिताः, शताधिकाः पत्रालयद्वारा पठितारः, द्विशताधिकाः अध्येतारः, दश सम्भाषणशिबिराणि, चत्वारः छात्रवर्गाः (पठनकेळिः), षड् अनुवर्ती शिक्षणवर्गाः, संस्कृतेतरसंस्थासु वर्गाः, परितः ग्रामे संस्कृतविषये जागरणं, ५०,००० अधिकरूप्यकाणां पुस्तकविक्रयणं – इदं सर्वम् आकलयामः चेत् संस्कृतकार्ये वर्धने च अयं विनूतनः अवधेयः पदन्यासः एव । अयम् अनुभवः अत्र कार्यं कृतवतां स्फूर्तिदायकं वर्तते