केरलप्रदेशस्य परयकडवु नामके मत्स्योपजीविनाम् ग्रामे त्रिपञ्चादशधिके ऊनविंशतिशते सामान्याद्बे सप्टेम्बर् मासे सप्तविंशति दिनांके (२७ सप्टेम्बर् १९५३) प्रभाते एका बालिका जाता। मातापितरौ तस्याः बालिकायाः सुधामणी इति नाम चक्रतुः। सा तु अनन्तरकाले तया य आनन्दः लोकेभ्यः प्रदत्तः तं सूचयन्निव अविलपती स्मेरमुखी च सन् अस्मिन् लोके समगात्।
इतरेभ्यः सन्मार्गं प्रदर्शयन्ती इव सुधामणिः स्वस्याः शैशवे बाल्ये च ईश्वरदर्शनार्थं स्वात्मानं सदा तपसि निमज्जयन्ती दिनानि अयापयत्। बाल्ये एव सा देशकाले सर्वथा विस्मरन्ती भगवद्ध्याने निमग्ना बहुधा दृश्यते स्म। पञ्चमे वयसि एव सा अर्थगर्भितानि भावपूर्णानि भगवत्कीर्तनानि रचितुमारभत्।
अल्पे वयसि एव तस्याः मनसि सहजीविनां कृते स्नेहः अनुकंपा च नितरां आविरभूताम्। वृद्धानां प्रतिवेशिनां क्लेशापनयनार्थं यत्किमपि कर्तुं सुधामणिः सदा सज्जा आसीत्। सा तान् स्पापयित्वा, वस्त्राणि प्रक्षालयित्वा तेषां शुश्रूषां करोति स्म। अपि च स्वगृहात् अन्नवस्त्राणि आनीय तेभ्यः ददाति स्म। मातापित्रोः भर्त्सनं ताडनं वा तस्याः अनुकम्पायाः नैसर्गिकं प्रकटनं निरोद्धुं समर्थं न अभवत्। अनन्तरकाले तया उक्तं, “अविच्छिना एका प्रेमसरित् मत्तः सर्वभूतेभ्यः प्रवहति। एषः मम सहजस्वभावः।”
अद्य जगतीतले सा ’अम्मा’, माता अमृतानन्दमयी देवी इति च नाम्ना सुविख्याता।दुःखितानां दुःखं, दरिद्राणां दैन्यं, पीडितानां पीडां च परिहर्तुं तया विविधाः पद्धतयः समारब्धाः। न केवलं भारते परं विदेशेष्वपि मातुः गौरवं सञ्जातम्।मानवकुलस्य उत्थापनार्थं तया कृतं कार्यं अवलोक्य संयुक्तराष्ट्रसंघेन सम्पूर्णजगता च सा समादृता।
स्वीयानां उपदेशानां उत्तमं निदर्शनं अम्मा स्वयं भवति। मातुः शिष्याः भक्ताश्च तत्कर्माणि अवलोक्य एव तदुपदेशान् स्वांशीकुर्वन्ति।
स्वसविधे आगच्छन्तं एकैकमपि मातृवात्सल्येन आलिंग्य, प्रेमपूर्णेन चक्षुषा समीक्ष्य, दुःखविमोचकेन हस्तेन परामृश्य च संसारतापतत्पेभ्यः समाश्वासनं प्रयच्छन्ती इतः पर्यन्तं पञ्चत्रिंशत् वत्सराणि तया यापितानि।
किमर्थं एवं सर्वान् आलिंगतीति पृष्टायाः तस्याः प्रतिवचनं, “किमर्थं प्रवहति इति यदि कश्चिद् नदीं पृच्छति चेत् नदिःकिं प्रतिवक्तुं शक्यते?” इत्यासीत्।