प्रश्नः – मातः, आबहोः कालाद्भवती भारतवर्षस्य सर्वाणि राज्यानि, अन्यानि राष्ट्राणि च गत्वा तानि पश्यन्ती वर्तते । एषु वर्षेषु यूरोपराष्ट्रेषु अमरिकायां च कानि परिवर्तनानि दृश्यन्ते ?

अम्बा – पुत्राः, माता कदापि भारत-अमरिकयोर्मध्ये उत भारत- युरोपयोर्मध्ये भेदं गणयति । अत्रत्याः तत्रविद्यमानाश्च सर्वेऽपि पुत्रा मदीया एव । अथापि पश्चिमराष्ट्राणां संस्कृतिः अस्मत्संस्कृतेः भिन्ना वर्तते । विविधराष्ट्राणां स्वाभाविकं प्राकृतिकवातावरणम्, आर्थिकी स्थितिः, भावनात्मकविषयेषु साधिता पक्वता च संस्कृतेः जनानां च निर्माणं विधास्यति । अवश्यं अत्रोक्तेषु क्षेत्रेषु राष्ट्राणां मध्ये भेदः विद्यत एव । अत्र भारते पथिषु वाहनानि वामभागे चलन्ति, अमरिकायां तावत् दक्षिणभागे यान्ति । एवं रीत्यैव सांस्कृतिकभिन्नतापि भारतामरिकयोर्मध्ये विद्यते ।

यद्वा भवतु, सर्वत्रापि देशेषु प्रेम्णः शान्तेश्च स्वभावः समान एव । राजकीयकारणादुद्भूताः सीमानः इदं सत्यं न निवारयितुं क्षमाः । गोः दुग्धं यत्र क्वापि वा भवतु श्वेतरूपेणैव भाति – भारते अमरिकायाम् यूरोपराष्ट्रेषु वा । अग्नेः स्वभावोऽपि सर्वत्र समान एव । तद्वदेव मधु सर्वत्र मधुरमेव भवति । तथैव शान्तेरनुभवोऽपि समानो भवति सर्वत्र देशेषु । भाषा, सामाजिकी स्थितिः, वर्गभेदो वा न कदापि शान्तेः पेम्णश्चानुभवं रोद्धुम् अन्यथाकर्तुं वा समर्थाः । इदमेव मातरं तस्याः पुत्रैः सह निबध्नाति विश्वस्मिन् विश्वे । माता तदुभयमेव सर्वत्र दिदृक्षति ।

बहुवर्षेभ्य अर्जितेनानुभवेन अम्बा वक्तुमुत्सहते यत् एषु दिवसेषु यूरोप- अमरिकयोः खण्डयोर्जनानां आध्यात्मिकासक्तिरेधमाना दृश्यत इति । तत्रत्या जनाः स्वजीवने सकलमपि स्वातन्त्र्यमनुभवन्ति । कृष्णं चर्म अपि श्वेतं कर्तुमिमे जनाः समर्थाः, अथ च श्वेतं चर्म कृष्णरुपेण परिणमयितुमपि । स्त्री काचित् पुरुषरूपेण परिणाममेतुं क्षतमे, पुरुषः स्त्रीरूपेणापि । वयसः कारणात् मुखे समुद्भूतानि चिह्नान्यपि शस्त्रक्रियया समीकर्तुं कुशला इमे । स्वशिरसः केशराशेः कञ्चनभागं नीलवर्णेन, कञ्चनभागं पीतवर्णेन, अथ कञ्चिद्भागं रक्त्तवर्णेनापि रञ्जयितुं समर्थाः । वस्तुतः केशान् येनकेनापि वर्णेन वर्णनं शक्यमत्र । स्त्री स्त्रियमेव वोढुमवकाशोऽस्ति, पुरुषश्च पुरुषम् । नगरान्नगरं प्रति वासपरिवर्तनं तु अतिसामान्यम् । स्वेच्छया वस्त्राणि धर्तुं कश्चिदत्र पारयति । परन्तु लब्धेऽपि एत्रादृशे  स्वेच्छापूर्णे स्वातत्र्ये इमे जनाः खिद्यन्ते भ्रमनिरसनञ्चानुभवन्ति । अनेन तैरनुभूतमेकं सत्यं तथ्यमस्ति यत् स्वातन्त्र्यं नाम तन्न भवति यद्बहिष्ठं, किन्त्वान्तरिकमेव स्वातन्त्र्यं स्वातन्त्र्यं भवतीति । तत्तु स्वेनैवान्वेष्टव्यं भवति । इदमेव तान् अन्तर्मुखीकरोति, अध्यात्मिकोन्नत्त्यै च प्रेरयति । वस्तुपूर्णं भौतिकं जगद्विहाय तेऽद्य आध्यात्मजगदुत्प्रेक्षन्ते । पाश्चात्याः भारतीयसंस्कृतिमधीयानाः सन्ति एषु दिनेषु । तद्विरुद्धदिशि भारतीयाः अध्यात्ममार्गं विहाय भौतिके जगति नितरां रुचिमापन्नाः पाश्चात्यानुकरणरताश्च विराजन्ते । पाश्चात्यैर्यत् निष्ठीवितं तदेव महाप्रसाद इति आमनन्तो वयं स्वदामहे । वस्तुजगति सुखं नास्तीति विदित्वा ते तत्त्यक्तुमासक्ताः, वयं च तदेव वस्तुजगदालिङ्गितुमुद्युक्ताः । जीवनमूल्यानां तिरस्कृतिरस्माभिर्भारतीयर्विधीयमाना विद्यते, पाश्चात्त्यास्तावत् तान्येव मूल्यानि आत्मसात्कर्तुं यतमानास्सन्ति ।

आत्मने बोधितस्य विषयस्यावगमनार्थं ते यतन्ते, अथ अत्र भारते तावद्बालाः यद्यपि चतुराः अथापि श्रुतस्यावगतस्यापि विषयस्य अङ्गीकारं न कुर्वन्तः सन्ति (अथाप्यत्र सर्वेऽपि भारतीयबालकास्तादृशा इति माता न वदन्ती अस्ति ) । पाश्चात्त्याः यदि विषयमवगच्छन्ति, तत्सत्यमिति च विदन्ति चेत्तस्य स्वीकारे व्रीडां न कुर्वते । तेषां भौतिकोन्नतये अपि इदमेव कारणमिति कश्चित् वक्तुं शक्नोति ।

भारतस्य वास्तविकी सम्पद्भवति तस्य संस्कृतिः । अत्रत्या जनाः तद्वेत्त्तुं नोत्सहन्ते इति विषीदति मनः । प्रज्ञासागरस्यान्तः इमे जना  न निमज्जन्ते । देवालयाः एव तेषां भक्तेर्भावस्य च एकैवाधारशिला । तेषां श्रद्धा अपि अन्तरन्तः दृढतरमूलवती नास्ति । अत एव  अस्याः संस्कृतेः वैज्ञानिकं प्रतिपत्तिमाप्तुं अत्रत्या जनाः सिद्धा भवेयुः ।

इमामेव संस्कृतिम् अधीत्य पाश्चात्त्याः तथ्यमव्चगत्य तेनैव तथ्येन नितरां निबद्धा अविचलिताः सन्तः प्राणन्ति । किन्तु अस्माकं भारतीयानां जीवनपद्धतिरेव एतद्विरुद्धदिशि प्रवर्तमानाऽस्ति । पूजागृहे पूजन्तं पितरं दर्शं दर्शं शिशुः तमेवानुसरति, पितुः करग्राहं प्रदक्षिणां कुरुते च । स एव शिशुः प्रवृद्धस्सन् स्वपुत्रमपि इदमेव शिक्षयति । उभावप्येते न जानीतः किमर्थम् इदं कर्म करणीयम्, एतस्य तथ्यं किमिति च । अद्यत्वे एतादृशी काचिच्छोशनीया स्थितिरुद्भूताऽस्ति यत्, भारतीयसंस्कृतिं वेत्तुं भारतीयाः पाश्चात्त्यैर्लिखितान् ग्रन्थान् अधीयीरन्निति ।