प्रायः अस्माकम् सर्वेषामपि प्रश्नानां हेतुः अस्माकं अहंभावः एव। किन्तु एषः अहंभावः केनापि ग्रहीतुं दातुं वा न शक्यते। अस्य नाशाय एक एव उपायः अस्ति, तत्तु विनयभावः। विनयभावेनैव अहंभावस्य निवारणं कर्तुं शक्यते। यदा कश्चित् “अहमेव यजमानः” इति वदति, तस्मिन् क्षणे एव सः अहंभावस्य दासत्वमाप्नोति। दैनंदिनजीविते संतोषं अनुभोक्तुमपि अहम्भावः स्वार्थविचाराश्च नितरां विघ्नाः भवन्ति। अनेनैव कारणेन आत्मानं विस्मृत्य अन्यैः सह सप्रेमं व्यवहर्तुमपि वयं न शक्नुमः। सर्वं मया एव प्राप्तव्यं, अहमेव सर्वम् संगृह्णामि इति भावः एव अद्य सर्वत्र दृश्यते। एतद् भावस्य दूरीकरणं विना जीविते आनन्दं न कदापि अनुभवामः। दर्शनशक्तिरहितान् अन्धान् नेतुं शक्यते। नेत्ररहितानामपि तेषां हृदयानि प्रेमपूर्णानि स्युः। किन्तु य अहङ्काररूपिणा आन्ध्येन ग्रस्तः स तु नितरां अन्धः। अनेनान्धकारेण ग्रस्ता वयं जाग्रदवस्थायामपि सुषुप्ता इव वर्तामहे। यदा एनं अहङ्कारं तारयामः तदा वयं लोककल्याणार्थम् समर्पिता भविष्यामः। यदा वयं अन्येषु ईश्वरस्य सान्निद्ध्यं दृष्टुं शक्नुमः तदा अस्मासु विनयः स्वयमेव आविर्भविष्यति। अहङ्कारस्य निवारणार्थं विनयः अत्यावश्यकः। यस्तु आत्मानं सर्वेषां दासं मन्यते स एव प्रेममयलोकस्य प्रभुः, न तु अपर योऽत्मानं सर्वेषां प्रभुं मन्यते।
क्रोधस्तु अहङ्कारात् संजायते। क्रोधस्य स्वहृदय एव हठात् निरोधो न कर्तव्यः। क्रोधः बहिरपि न प्रदर्शनीयः। क्रोधः हृदये हठात् निरुद्धश्चेत् तद् दोषाय भवेत्। एषः क्रोधः अन्तः स्थित्वा तुषाग्निरिव अनुनिमिषं चित्तं दाहयति। ततः चित्तक्षोभोऽपि भवति। अपि च अन्तःस्थितः एषः क्रोधः अस्माकं सर्वेषु व्यवहारेषु प्रतिबिम्ब्यते । कोपः हृदि निरुद्धश्चेत् तेन वयं रोगातुराः भवामः। बहिः प्रदर्शितश्चेत् तदन्येषां दोषाय भवेत्। अत एव कोपः उभयतरतीक्ष्णः वारङ्गरहितश्च खड्ग इव भवति इत्युच्यते। क्रोधरूपी खड्गः तस्य प्रयोक्तारं लक्ष्यं च हनिष्यति। असिप्रहारेण शरीरे यो वृणः जायते स भेषजेन अचिरादेव शाम्यते। किन्तु क्रोधवशात् प्रयुक्तेन वाक् शल्येन यो वृणः मनसि जायते स तु कदापि न शाम्यते। अतः यदा क्रोधः संजायते तदा तस्य बहिः प्रकटनं, स्वात्मन्येव स्थापनम् वा न कर्तव्यम् किन्तु विवेकबुद्द्ध्या तस्य शमः करणीयः। क्रोधाधीनाः भूत्वा ये निर्णयाः वयं स्वीकुर्मः तेषां प्रयोगः झटित्या न करणीयः। यदा वयं क्रुद्धाः तदा स्वमनसि उत्पद्यमानाः विचारा तथैव वाचा न प्रकटनीयाः। क्रोधस्य शमनाय क्षमाविवेकौ एव भेषजे भवतः। क्रोधः अस्माकं दोष इति आदौ ज्ञातव्यम्। क्रुद्धः सन् कमपि उद्दिश्या पत्रं लिखति चेत् प्रेषणात् पूर्वं तद् बहुवारं पठनीयम्। एवं चेत् क्रोधवशात् लिखितानि कठोरपदानि वाक्यानि च वर्जयितुं शक्यते। अनन्तरं यदा वयं क्रोधान्मुक्ताः भवामः तदा विवेकपूर्वं पुनःचिन्तयामश्चेत् अस्माकं दोषं सम्यक् ज्ञातुम् शक्नुमः। तदा निर्मले दर्पणे दृश्यमान छाया इव अस्माकं मनोवृत्तय अपि सुस्पष्टं दृश्यन्ते। तथैव क्रोधस्य निस्सारता क्षमायाः महत्वं च सम्यग् बोद्धुं शक्नुमः।
यदि जनौघमध्ये स्थितस्य कस्यचन पुरुषस्य उपरि अकस्मात् केनापि प्रक्षिप्तः कश्चन शिलाखण्डः पतित्वा शरीरे व्रणः अपि अभवत् तर्हि व्रणितस्य अङ्गस्य औषधोपचारः एव तेन प्रथमतया कर्तव्यः न तु केनायं पाषाणखण्डः प्रक्षिप्त इति अन्वेष्टुं प्रयत्नः। नो चेत् तस्मिन् उद्यमे व्रणं मलिनो भूत्वा तस्य शमने विलम्बो भविष्यति। कदाचित् शिलाखण्डस्य प्रक्षेप्तारम् अन्विष्य तस्य भर्त्सनानन्तरमेव स निर्दोषः, शिलाखण्डस्तु केनचिदपरेण प्रक्षिप्तः इति ज्ञायते अथवा कस्यापि हस्तात् अजानता शिलाखण्डः पतित इति। दोषी गृहीतः ताडितः चेदपि व्रणस्य पीडा औषधाभावे वर्धत एव। क्रोधस्तु मानसिकं व्रणमिव भवति। प्रथमतया तस्य शमः आवश्यकः। तदर्थं अस्माकं चित्तवृत्तीनां साक्षिवद् निरीक्षणं कर्तव्यम्। नो चेत् चित्तवृत्तयः वाग्रूपेण प्रवृत्तिरूपेण च परिणमन्ते। तत्तु अस्माकं क्लेशाय भविष्यति।