प्राणिनः सर्वे स्वातन्त्र्येण वर्तेयुः इत्युद्दिश्य एव ईश्वरः सर्वान् असृजत्, सुखाननुभोक्तुं तेषां शरीराणि भगवता दत्तम् इति च बहवः वदन्ति। एतद् सत्यमेव. शरीरस्तावद् सुखभोगार्थमेव। यानचलनार्थमेव मार्गा निर्मिता सन्ति। परन्तु यानचालननियमान् उल्लंघ्य यानं चालयति चेत् अपघातः भवेत्। अनवहितः सन् स्वेच्छया यानं चायलति चेत् तस्य दुष्परिणामः भवति। सर्वस्यापि कार्यस्य तत्तस्य धर्मः वर्तते। तदनुसृत्येव तत् करणीयम्। धर्मव्यतिरिक्ता वाक्, प्रवृत्तिश्च अस्माकं विनाशाय एव।
एकदा कश्चित् पुरुषः समुद्रतीरे अटति स्म। तत्र सिकतायां सः एकां काचकूपिकां अपश्यत्। यदा तेन सा कूपिका उद्घाटिता तदा ततः एकः भूतः बहिः आगतः। भूतं दृष्ट्वा सः पुरुषः भीत अभवत्। तद् दृष्ट्वा भूतः तं पुरुषं एवं उक्तवान् “मां दृष्ट्वा भीतो मा भूः। अहं दीर्घकालं अस्मिन् कूपिकायां बद्धः आसम्। अद्य भवता अहं मोचितः। अतः भवतः साहाय्यकः एवाहम्। भवन्तं त्रीणि वराणि दास्यामि, पृच्छतु” इति। सः प्रथमं वरं पृष्टवान् – “माम् अस्मिन् लोके महत्तमः धनिकः करोतु”। भूतः “भूम्” इति शब्दितवान्। तदानीं तत्र अनेककोटिरूप्यकाणां राशी आविरभूत्। “मह्यं अतिविशालं प्रासादमेकं यच्छतु” इति सः द्वितीयं वरं वृणीतवान्। भूतः “भूम्” इति शब्दितवान्। तदानीं तत्र अतिविशालः प्रासादः प्रत्यक्षो॓ऽभूत्। तृतीयवररूपेण “मां तथा करोतु येन लोके सर्वापि स्त्रियः मयि मुग्धा भवेयुः” इति प्रार्थितवान्। “भूम्” इति भूतः तृतीयवारं शब्दितवान्। निमिषैणैकेन सः पुरुषः चाकलेह रूपेण परिवर्तितोऽभवत्।
तस्मिन् अवसरे स्ववाचां उचितः उपयोगः कर्तुं अशक्तः इत्यतः सः किमपि प्राप्तवान्, तस्य सर्वमपि नष्टं चाभवत्। अतः माता वदति यदि अस्माकं प्रत्येका वाक् प्रवृत्तिश्च सावधाना न भवति चेत् अस्माकं सर्वनाशो भविष्यति इति।
या विवेकबुद्धिः ईश्वरेण अन्येभ्यः केभ्य अपि प्राणिभ्यः न दत्ता, सा मानवाय वररूपेण प्रदत्ता। सा विवेकबुद्धिः सम्यक् न प्रयुज्यते चेत् अस्माकं जीवितं व्यर्थः भविष्यति। अतः अस्माभिः विवेकबुद्धिः सततं जागरणीया। विवेकपूर्वककर्मेणैव जीवने शाश्वतविजयः प्राप्तुं शक्नुमः॥