संस्कृतम् अस्माकम् जननी । उपनिषदादिषु ग्रन्थेषु निहितस्य ज्नानभण्डागारस्य संरक्षणाय प्रचाराय च तेषाम् ग्रन्थानाम् अध्ययनं संस्कृतमाध्य़्मेन करणीयम् । संस्कृतम् अस्माकं संस्कॄत्याः भाषा । भारतीयसंस्कृतिं संस्कृतं च विभक्तुं न शक्य़ते । भारतग्रन्थानाम् इतरभाषाव्य़ाख्य़ान पठनेन् कोऽपि लाभः नास्ति । यतो हि परिशुद्दपीयूषस्य पानेन यम् आनन्दं लभामहे तम् आनन्दं जलयुक्तपीयूषस्य पानेन वयं न लभामहे ।
-माता अमृतानन्दमयीदेवि

समग्रं विश्वं यदि एककुटुम्बम् इति चिन्तयामः चेत् भारतं तद्गृहस्य पूजागृहमिति भृशं उद्घोषयती माता विश्वे सर्वत्रापि भारतस्य सन्देशं प्रसारयति । तस्याः अनुग्रहेण प्रेरणया च आश्रमे संस्कृतपठनस्य पाठनस्य प्रचरणस्य च शुभारम्भः अभवत् । अतः सर्वेऽपि गौरवं दत्त्वा संस्कृतपठनं कुर्वन्ति । संस्कृतकार्यं स्वकीयं इति भावेन तस्य अध्ययने, पोषणे, प्रचारे च निमग्नाः सन्ति आश्रमवासिनः । अयं विनूतनः अनुभवः अस्माकं कार्यकर्तॄणाम् । अत्यल्पे कालावधौ गुरुवचनानि शिरोधार्यम् इति चिन्तयन्तः कार्यं कुर्वन्तः एते सर्वेऽपि निश्चयेन संस्कृतमातुः अपि प्रियपुत्राः एव । तेषां निरुपाधिकं निस्स्वार्थं च संस्कृतकार्यं नूनं संस्कृतक्षेत्रे प्रेरणादायकम् । यदि अग्रेऽपि मातुः अनुग्रहः भवति तर्हि विश्वव्यापिमठस्य संस्थाभिः अपि संस्कृतप्रचारः सुनिश्चितः ।