गुरुः सर्वदा शिष्यस्य शिष्यायाः संस्कारानुगुणमेव उपदिशति उपदेशम्। एकस्मिन्नेव विषये गुरुः भिन्नेभ्यः शिष्येभ्यः भिन्नमेवोपदेशं दद्यात्। अन्यस्मै दत्तः गुरूपदेशः मया किमर्थं न प्राप्तः गुरुमुखादिति इति चिन्तनं कस्मैचिदपि शिष्याय न शोभते। गुरुरेव विजानाति कस्य कीदृशः उपदेशः देय इति। अत एव स्वोद्देश्यसाधनाय गुरुपदेशशरणागतिरेव शिष्याय उत्तमो मार्गः इति लोके कथ्यते। कस्मिंश्चिदाश्रमे द्वे व्यक्ती कार्यं कुर्वत्यौ आस्ताम्। तयोरेकः जनः धूमपानं कर्तुं […]
Category / अमृतवाणी
श्रुतस्य विषयस्य सम्यगवगमनार्थम् अस्मासु मुग्धता स्यात् । मुग्ध एव जनः सर्वत्र सात्त्विकतामवलोकयते । अनेनैव मुग्धेन मनसा भगवद्दर्शनमपि शक्यम् । सात्त्विकता एव भगवन्नाम्ना कथ्यते, भगवांश्च लोके सर्वत्र वस्तुषु विद्यत एव । केवलं तद्द्रष्टुं योग्ये नयने अपेक्षेते तावदेव । विज्ञानिनो वदन्ति सर्वमिदं शक्तेः निर्मितम्, शक्तिमयं जगदिति । अस्माकं पूर्वजा ऋषयः ऊचिरे “सर्वं ब्रह्ममयम्” इति । इत्थमेव तद्ब्रह्म […]
भारतीयाः सन्तोऽपि भारतीयमेव सनातनधर्मं विमृशतां, कदाचित् निन्दतां विषये माता जानात्येव । तेषां निन्दकानां भणितिरस्ति – “ हैन्दवाः प्राचीनकालिका जना । हैन्दवानां श्रद्धाऽपि नैतत्कालिका । तेऽधुनापि प्राक्तना इव वानरं, गजमुखं च पूजयन्ति ” इति । अथ अस्मासु कति जना एतस्याः पूजायाः, तद्देवतामूर्तीनां च वैज्ञानिकं तत्त्वं विदन्ति ? कति नाम जनाः तद्वेत्तुं प्रयत्नं व्यधासिषुः? यदि कश्चिदिदं जिज्ञासुः, […]
प्रश्नः – मातः, आबहोः कालाद्भवती भारतवर्षस्य सर्वाणि राज्यानि, अन्यानि राष्ट्राणि च गत्वा तानि पश्यन्ती वर्तते । एषु वर्षेषु यूरोपराष्ट्रेषु अमरिकायां च कानि परिवर्तनानि दृश्यन्ते ? अम्बा – पुत्राः, माता कदापि भारत-अमरिकयोर्मध्ये उत भारत- युरोपयोर्मध्ये भेदं गणयति । अत्रत्याः तत्रविद्यमानाश्च सर्वेऽपि पुत्रा मदीया एव । अथापि पश्चिमराष्ट्राणां संस्कृतिः अस्मत्संस्कृतेः भिन्ना वर्तते । विविधराष्ट्राणां स्वाभाविकं प्राकृतिकवातावरणम्, आर्थिकी […]
अध्यात्मिकोन्नतेः सरलो मार्गः विद्यते गुरोरङ्घ्रिपद्मयोरात्मनः सम्पूर्णतया समर्पणम्। संशयलेशं विना गुरुवाक्यमेवानुसरणीयं नितराम्। कार्यममुं कर्तुं तत्सहकारि मनः अस्माभिराप्तव्यम् । एतदनन्तरं वस्तुतः सर्वमपि सुलभायते। गुरुर्यद्वा उपदिशतु नाम, शिष्यस्य मनसि तावत् स्वार्थपूर्णा इच्छा एव जागर्ति , तदनुसारमेव शिष्यः प्रवर्तते कर्मणि। तत्परिणामेन सः दोषानपि समाचरति, ये च दोषाः दुःखहेतवो भवन्ति भाविनि काले। प्रायः तदानीमेव स वेत्ति यत् तस्य कर्माणि तन्मनोनुगुणान्यासन्नतु […]