गुरुः सर्वदा शिष्यस्य शिष्यायाः संस्कारानुगुणमेव उपदिशति उपदेशम्। एकस्मिन्नेव विषये गुरुः भिन्नेभ्यः शिष्येभ्यः भिन्नमेवोपदेशं दद्यात्। अन्यस्मै दत्तः गुरूपदेशः मया किमर्थं न प्राप्तः गुरुमुखादिति इति चिन्तनं कस्मैचिदपि शिष्याय न शोभते। गुरुरेव विजानाति कस्य कीदृशः उपदेशः देय इति। अत एव स्वोद्देश्यसाधनाय गुरुपदेशशरणागतिरेव शिष्याय उत्तमो मार्गः इति लोके कथ्यते।

कस्मिंश्चिदाश्रमे द्वे व्यक्ती कार्यं कुर्वत्यौ आस्ताम्। तयोरेकः जनः धूमपानं कर्तुं उदयुङ्क्त। तद्दृष्ट्वा अन्यः अवदत् “नात्र धूम्रपानं युज्यते, हेयमेतत्” इति। अन्यः प्रत्यवदत् “धूमपानेन हानिर्नास्ति काचिदपि, क्रीडनसमयेऽपि कश्चित् धूमपानं कर्तुमर्हति” इति।

“तर्हि एतद्विषये गुरुमेव प्रच्छावः” इति तदन्यः गुरुं प्रति अगमत्। गुरोः प्रत्यागत्य सः स्वमित्रमवदत् “नेदं केवलं हेयम्, किन्तु पूजनवेलायां धूमपानं पापाय अपि”। तर्हि अहमेव गुरुं गत्वा प्रक्ष्यामीति वदन् अन्यः प्रातिष्टत। गुरुसमीपं गत्वा पुनर्धूमपानं कुर्वन्नागतं तं दृष्ट्वा प्रथमः पुनरप्राक्षीत् “किं भोः, किमिदं कुरुषे, धूमपानं न कर्तव्यमिति गुरुभिरुक्तं ननु?” इति। तदानीं सः प्रत्यवादीत् “गुरवः धूमपानाय मे अनुमतिम् अयच्छन्” इति। “तर्हि भवता वस्तुतः किं पृष्टम् ?” आदिमः आश्चर्येण पुनः अपृच्छत्। तदा सः वदति “मया इदमेव पृष्टम्, धूमपानं कुर्वता पुरुषेण तस्मिन्नेव काले देवस्मरणं प्रार्थनं वा कर्तुं शक्यं वा? इति। तद्गुरवः प्रत्यवदन् – आम् वत्स, तत्र नास्ति कोऽपि दोषः, तत्तथैव भवेत्, इति।”

अत्र एकस्य पुरुषस्य मनः देवस्मरणसमये अपि कर्मणि निमग्नमस्ति। अन्यस्य पुरुषस्य मनः कर्मणि निमग्नमपि देवस्मरणरतमेवास्ति। गुरोः पुरस्तात् किमपि वदामश्चेत् मुक्तेन मनसा तत् पृष्टव्यं भवति। मनसि आदावेव काञ्चिद्भावनां निर्धारं वा निधाय प्रच्छामश्चेत् गुरूणां वचसामर्थम् अस्मदिष्टरूपेणैव विपरिणम्य वेत्तुं प्रयतामहे। अस्य विपरिणामान् कालान्तरे वा अनुभोक्तुम् अस्माभिः सिद्धैर्भाव्यं स्यात्। तदानीमेव अस्माकमपराधं वयं विद्मः, किन्तु तेन प्रयोजनं नैव भवति, अतीतकालत्वात्। अत एव मुग्धमनसा एव गुरूणां दर्शनं कार्यं, तेषां वचसां वास्तविकार्थचिन्तनमपि कार्यम्।

सर्वेणापि शिष्येण पृष्टस्य प्रश्नस्यैकस्य एकरूपमेवोत्तरं गुरुमुखादायातीति नास्ति नियमः। प्रत्येकं जनस्य मानसिकीं सिद्धतां विदित्वा एव गुरुरुत्तरति। बहोः वर्षेभ्यः धूमपानासक्तं कमपि पुरुषं साक्षात् धूमपानं त्यजत्विति गुरुर्न वदेत्। तदन्यथा क्रमेण तस्य धूमपानाभ्यासनिर्मूलनार्थं सूचयेत्। धूमपानकालेऽपि प्रार्थयितुं शक्यते इति वदता गुरुणा धूमपानकालेऽपि धूमपानिनः मनः प्रार्थनायां मग्नं भवत्विति आशा अभिव्यक्ता। प्रार्थनायामेव मनः यदा संलग्नं भवति तदा क्रमेण धूमपाने आसक्तिः नश्येदिति गुरुराशास्ते। एवमेव यदि सः धूमपानी जनः दृढबुद्धिवानभविष्यत्तर्हि गुरुस्तं धूमपानं त्यजेति साक्षादवदिष्यत्।

स्तन्यपानमप्यत्यजता शुशुना मांसभक्षणमशक्यं ननु? दत्तेऽपि मांसे शिशुस्तं क्षिपेत्। अनयैव रीत्या गुरुरपि शिष्यस्य मानसिकीं दैहिकीं च परिपक्वतां मनसि निधायैव उपदिशति। शिष्यस्य संस्कारानुगुणं स्वभावानुगुणं वा भवति गुरूपदेशः।

अनया कथया धूमपानं नैव कुर्वन्त्विति उपदेशमेव कुरुते अम्बा। धूमपानं कस्यचिदेकस्य मनोरञ्जनाय स्यात्, किन्तु जनान्तरं प्रति धूमः अनारोग्याय स्यात्। अत एवानन्दः वस्तुषु नास्ति किन्तु मनसि विद्यते इति वेद्यते।

कदाचित् गुरुः किञ्चिदपि कर्म अकुर्वाणं निर्लज्जम् अलसं प्रति वदेत् ‘आलस्यादपि चुराकर्म श्रेयस्करम्’ इति। तन्नाम केवलं अन्नपाननिद्राभ्यः यद्वा कर्मकरणं श्रेयस्करमिति गुरुवाक्यस्य सारं वेत्तुं शिष्यः शुद्धबुद्धिवान् स्यात्। तमसि निमग्नं प्रति रजोगुणमाप्तुं गुरुः प्रेरयन्नस्ति अत्र। तमसि निमज्जनापेक्षया रजसः रभसः श्रेयस्करः। तन्मूलकं सात्त्विकमपि पदं पुरुषः आप्नुयात्। गुरूणां वाक्यानामर्थः एवं रीत्या शोधनीयः।