केरलेषु दक्षिणे कोल्लं जनपदे करुनागपल्ली समीपे समुद्रतटे विराजते माता अमृतानन्दमयी मठम् । सद्गुरु माता अमृतानन्दमयी देवी स्ववात्सल्येन अहैतुकप्रेम्णा च दुःखितान् समाश्वासयति तथा च तेभ्यः सन्मार्गं दर्शयति ।

Satsang with Amma

प्रायः ८००० जनाः आश्रमे निवसन्ति । तत्र अनल्पाः विदेशीयाः छात्राः गृहस्थाः कर्मचारिणः ब्रह्मचारिणः ब्रह्मचारिण्यः च अन्तर्भवन्ति । एतेषु छात्रान् विहाय सर्वे अपि उपर्युक्तसंस्थासु विभागेषु च् गुरुसेवारूपेण कार्यं कुर्वन्ति । कार्यमध्ये एव शास्त्राध्ययनं साधनां च निर्वहन्ति।

आश्रमे मुद्रणालयः तथा गन्धवर्तिका फेनकानि जपमालादिकं आयुर्वेद-औषधानि च निर्मातुं विभागाः प्रवर्तन्ते । एतैः द्वारा सर्वे कर्मोन्मुखाः भवन्ति ।

माता अमृतानन्दमयी देवी स्वशिष्यसमूहेषु प्रत्येकमपि समाजसेवायां योजयति । मठस्य अधीने बह्व्यः संस्थाः सन्ति ।

आरोग्य संस्थाः
मठस्य अधीने अमृता इन्स्टिट्युट् आफ़् मेडिकल् सैन्स् इति केरलस्य बृहत्तमः आतुरालयः
अमृतविश्वविद्यापीठम् इति मानितविश्वविद्यालयः च अस्ति । अस्य अधः त्रयः अभियन्तृ-महाविद्यालयाः एकः वैद्यकीयमहाविद्यालयः नर्सिङ् महाविद्यालयः आयुर्वेदमहाविद्यालयः तथा च अन्यान् विविधान् विषयान् अधीतुं योग्याः शैक्षिकसंस्थाः प्रवर्तन्ते ।

Amrita Hospital

मुम्बै महानगरे विद्यमानं होस्पिस् केन्द्रं यत्र वैद्यैः अपि निराकृताः कान्सर् रुग्णाः आनीयन्ते । तत्र शान्तिपूर्वकं जीवनं तथा मरणं च तेषां सिद्ध्यति ।

तथैव केरले विद्यमानं ऐड्स् रोगातुराणाम् अभयकेन्द्रमपि रुग्णानां चिकित्सां पुनरधिवासं च पश्यति ।

सामुदायिक संस्थाः
विधवानां अशरणानां च महिलानां निमित्तं अमृतनिधिः इति धनसहायपद्धतिः निर्धनानां छात्राणां निमित्तं विद्यामृतम् इति पठनसहायनिधिः गृहरहितानां कृते अमृतकुटीरं पद्धतिः- इदं सर्वमपि तस्याः कारुण्यपूर्वकप्रकल्पेषु अन्यतमाः ।

यदा भूकम्पेन गुजरातराज्ये विपदुपस्थिता तदा भुज् प्रान्ते मठद्वारा सम्पूर्णं पुनर्निर्माणमभवत् ।

Amrita Setu connecting land and hearts

यदा सुनामितरङ्गाः दक्षिणभारते सर्वत्र विनाशं अकुर्वन् तदा असंख्यानां जनानां भोजनं
वस्त्रम् आवासं च मठवासिनः व्यवस्थापितवन्तः । तथैव बहुभ्यः गृहनिर्माणमपि तैः एव कृतम् । तस्मिन् काले श्रीलङ्कादेशे तथा कत्रीना चण्डमारुतेन पीडिते अमेरिकादेशे अयं कारुण्यप्रवाहः जनानां दुरितशमनार्थं प्रसृतः ।