Category / वार्ता

अमृतपुर्यां माता अमृतानन्दमयी मठे नवं १० तः १३ पयर्यन्तं ’माहेश्वरमृतम्’ व्याकरणशिबिरं प्राचलत्। शिबिरेऽस्मिन् ६० जनाः भागं स्वीकृतवन्तः । १० दिनाङ्के मातृवाणी पत्रिकायाः सम्पादकः स्वामी ज्ञानामृतानन्दपुरी दीपं प्रोज्ज्वाल्य शिबिरस्य उद्घाटनं कृतवान् । शिबिरे सम्भाषणसन्देशस्य सम्पादकः श्री जनार्दन हेगडे , संस्कृतभारत्याः रक्षाधिकारी डा.जि.गंगाधर महोदयः, स्ंस्कृतभारत्याः अखिलभारत-सम्पर्क्कप्रमुखः श्री वसुवच् , तिरुवनन्तपुरम् सर्वकारसंस्कृतमहाविद्यालयस्य प्राचार्यौ श्री.ईश्वरः , श्री.सुधीषः च वर्गाणि […]

सद्गुरुमाता अमृतानन्दमयी देव्याः निर्देशानुसारं गत २००९ ओक्टोबर् मासे आश्रमे ब्रह्मचारिणां निमित्तं संस्कृताध्ययनार्धं वर्गः आरब्धः । २५० जनाः वर्गार्थम् आगताः । विश्वसंस्कृतप्रतिष्ठानस्य संस्कृतभारति कार्यकर्तारः र्वगं सञ्चालितवन्तः । प्रथमदशदिवसेषु सम्पाषण शिबिरम् अबवत् । अनन्तरं संस्कृतद्वारा-गीता-भगवद्गीता द्वारा संस्कृतम् इत्येषः पाठ्यक्रमं स्वीकृत्य अध्ययनम् आरब्धम् । इदानीं पञ्च घट्टात्मकस्य अस्य पाठ्यक्रमस्य द्वितीयं घट्टं समाप्तम् । एते वर्गाः प्रतिदिनं अनवरतं चलन्ति […]

२३ आश्विनम् १९३२, अमृतपुरि नवरात्र-उत्सवस्य अनुबन्धेन आश्रमे, संस्कृताध्येतॄणां, संस्कृतानुरागिणां च भारतीपूजा कार्यक्रम् आयोजिताः । तण्डुलचूर्णे रचिते भारतस्य चित्रे ५१ शक्तिपीठानां प्रतिनिधिस्वरूपेण अक्षराणि दीपाः च रचिताः । अक्षराणां देव्याः पूजां सर्वेपि दीपज्वालनेन पुष्पार्चनेन कृतवन्तः । प्रायः ४०० जनाः भागं स्वीकृतवन्तः । भारतीपूजायाः,सङ्कल्पः,सन्देशः इत्येषु विषयेषु अधिकृत्य विश्वसंस्कृतप्रतिष्ठनस्य पूर्णकालिका रूपेण वर्त्तितुं श्रीमती वन्दनानन्दकुमारस्य भाषणमभवत् । पूज्य स्वामि तुरीयामृतानन्द […]

आश्रमस्य अधीने आकेरलं ३२ विद्यालयाः सन्ति । मातुः निर्देशानुसारं तेषु विद्यालयेषु छात्राणां कृते सम्भाषणवर्गाः निश्चिताः । प्रशिक्षिताः ब्रह्मचारिण्यः एतान् वर्गान् चालितवत्यः । साम्प्रतं पारिपल्ली, पुल्पल्ली, एडपल्ली, मानन्तवाटी इति स्थानचतुष्टये वर्गाः अभवन् । पठनकेळिः इति नाम्ना आयोजिताः एते दिनद्वयात्मकवर्गाः अतीव स्वीकार्यतां प्राप्तवन्तः । ये छात्राः द्वितीयभाषारूपेण संस्कृतं न पठन्ति स्म तेऽपि वर्गानन्तरं संस्कृतं प्रति परिवर्तयितुं न […]

२००९ नवम्बर् मासे आश्रमे ब्रह्मचारिणां निमित्तं संस्कृतवर्गः आरब्धः । गीताशिक्षणकेन्द्रस्य पाठ्यक्रमः आश्रितः । २०१० जून् मासे ७ दिनाङ्कतः १६ पर्यन्तं तेषां प्रशिक्षणशिबिरम् आयोजितम् । गीतासोपानस्य प्रथमभागं समाप्य द्वितीयभागं पठन्तः ते प्रशिक्षणार्थं आगताः । उपषष्टि ब्रह्मचारिणः/ ब्रह्मचारिण्यः शिबिरार्थिनः अभवन् । अन्ये नूतनाः ब्रह्मचारिण्यः गृहस्थाः आदर्शशिबिरार्थिनः च आसन् एतस्मिन् प्रशिक्षणे अ.भ.सं.मन्त्री श्री दिनेशकामतः, अ.भ. पूर्णकालिकप्रमुखः डा. को.ना. […]