अध्यात्मिकोन्नतेः सरलो मार्गः विद्यते गुरोरङ्घ्रिपद्मयोरात्मनः सम्पूर्णतया समर्पणम्। संशयलेशं विना गुरुवाक्यमेवानुसरणीयं नितराम्। कार्यममुं कर्तुं तत्सहकारि मनः अस्माभिराप्तव्यम् । एतदनन्तरं वस्तुतः सर्वमपि सुलभायते।

गुरुर्यद्वा उपदिशतु नाम, शिष्यस्य मनसि तावत् स्वार्थपूर्णा इच्छा एव जागर्ति , तदनुसारमेव शिष्यः प्रवर्तते कर्मणि। तत्परिणामेन सः दोषानपि समाचरति, ये च दोषाः दुःखहेतवो भवन्ति भाविनि काले। प्रायः तदानीमेव स वेत्ति यत् तस्य कर्माणि तन्मनोनुगुणान्यासन्नतु गुरुवचनानुगुणानि। इदं वास्तवज्ञानं  ततः परं गुरुवाक्यानुसारणे प्रेरणादायि भवति। गुरुशरणागतिभावेन या शान्तिः यश्च आनन्द अवाप्यते केनचित्, तावेव शान्त्यानन्दौ ततः परं तच्छरणागतिभावम् ततोऽपि वर्धयितुं तं प्रेरयतः। तदानीमेव शिष्यः स्वमनोकामनाः गुरुचित्तानुसारं परिवर्तयितुं समर्थो भवति। श्रद्धापूर्णेन प्रयत्नेन शिष्यस्य अन्तः विद्यमानः आत्मगुरुः अवबुद्धो भवति। किन्तु तदर्थं शिष्यः अवश्यं श्रद्धधानः, सहनापूर्णः, शरणागतिभावयुक्तः आशावादी च भवेत्।

अध्यात्माध्वगाः दोषान् कुर्युरेवेति सामान्यो विषयः। अथापि दोषेणापहतचेतः सन् न कश्चित् विरमेत्, यतो दोषैरेव भवति कश्चिन्मनीषी। पङ्के खलु पङ्कजोत्पत्तिः?  दोषान् कृत्वाऽपि तत्समीकरणार्थं यदि न यतेम, तर्हि स भवति महान् दोषः। पदक्रमणं कुर्वन् ननु शिशुः स्खलति पतति च? पतति, पुनरुत्तिष्ठति, पुनः पतति- अथापि यत्नेन न विरमति। शिशोः श्रद्धा तावत् मातुरुपरि, या सर्वदा पतिते शिशौ करुणापूर्णा, निरन्तरप्रयत्नाय प्रेरणादायिनी च। तथैव श्रद्धावन्तं पुरुषं भगवानपि सर्वेभ्योऽपि भयेभ्यः रक्षति। अहङ्कारवशात् कदचित् शिष्यः नेमां करुणां विजानीयात्। अथापि यदि सः मुग्धः, शुद्धहृदयः, विनयशीलश्च भवति तर्हि कालान्तरे सर्वमपि तेनावगतं भवति।

अस्माकं शरीराणि प्रवृद्धानि नास्माकं मनांसि। यदि मनः प्रवृद्धिमियात्तर्हि  शिशोर्मनः इव मुग्धता तत्र भवेत्। तादृशीं मुग्धतामाप्तुं विद्यारम्भकालिकी श्रद्धा सर्वदा अस्मासु भवेत्। सर्वमपि जानामीति चिन्तयन् मानवः नैवैधते नापि ज्ञानमाप्नोति। यदि किञ्चित् पात्रं सर्वात्मना पूर्णं तत्तर्हि तस्मिन् किं वा नूतनं द्रव्यं अन्तर्भवितुमर्हति? कुम्भोऽपि यदा कूपजले निमग्नो भवति तदैव खलु स्वान्तः जलं पूरयितुं प्रभवति? नोबेल् (Nobel) पुरस्कारभागपि यदि नूतनतया वेणुवादनमध्येतुं काङ्क्षति तर्हि तेनापि गुरुः शरणीगन्तव्य एव। लौकिके जीवने कश्चित् महान्विज्ञः स्यान्नाम, अथापि अध्यात्मिकक्षेत्रे सः बालवदेव स्यात्। गुरुपादयोर्नतिं विना अस्मिन् जगति अध्यात्मविज्ञानज्ञानोपायः न कश्चिद्विद्यते। एकयैव कुञ्चिकया न कश्चित् सर्वाण्यपि कीलकानि उत्कीलयितुं पारयति। गुरुशरणागतिं विना अध्यात्ममार्गे अङ्गुलिप्रमाणिका अपि प्रगतिः नैव शक्या ।

मुग्धया भावनया ज्ञानार्जनकाङ्क्षया च यदि कश्चित् गुरुमुपसर्पति तर्हि ब्रह्मज्ञानावाप्तौ न किञ्चित् कष्टमनुभवति सः अध्यात्मज्ञानभाण्डागारस्योद्घाटनमेव गुरुशरणागत्या भवति।

भगवदवगमने श्रद्धा, विनयश्च शिष्याय मुख्ये सम्पदौ। आदाविदम् आत्मसु उद्भावयन्तु। तदानीमेव वयं सर्वस्यापि ज्ञानस्य ग्राहका भवामः, तेनैव पूर्णाश्च भवेम। आत्मज्ञानं सर्वासु अस्मासु स्वयमेव पूर्यमाणं वर्तते; यद्यपि बहुशो वयं तद्विद्यमानं नावैमः।