पुत्रकाः, नवरात्रिर्नाम पराशक्तेः पूजनस्य पर्व भवति । या सा सर्वशक्ता, सृष्टेर्मूला च भवति पराशक्तिः ।
नवरात्रिः सत्सङ्कल्पानां, तपसः, पूजायाश्च शुभकालोऽस्ति । पूजायाः प्रकारः क्रमश्च प्रदेशानुगुणं भिद्येत । केषुचित् प्रदेशेषु नवदिनानि यावत् देव्याः नवरूपाणि क्रमादाराध्यन्ते । क्वचिदन्यत्र पर्वणः आदिमेषु त्रिषु दिनेषु कालिकात्वेन, ततः परं दिनत्रयं यावत् लक्ष्मीत्वेन, अन्तिमदिनत्रये सरस्वतीरूपेण इयं शक्तिः आराध्यते । क्वचिच्च केवलं नवरात्रेः अन्तिमं दिनत्रयं पर्वत्वेन आचर्यते ।
अतिनिद्रा, आलस्यं, लोभः, क्रोधः, अहङ्कारः, असूयादयः ऋणात्मकगुणाः अध्यात्ममार्गे अस्मान् रुन्धन्ति । तान् सर्वानपि ऋणात्मकगुणान् तपसा दृढसङ्कल्पेन च छित्वा अध्यात्मकोन्नतिः साध्या इत्ययं सन्देशः नवरात्रिपर्वणि व्यक्तो भवति । प्रार्थनया ध्यानेन च मानवः चित्तशुद्धिं, कल्याणं च समवाप्नोति । सङ्कल्पबलेनैव आत्मशक्तेः जागरणं, स्वात्मनिग्रहं च साधितुं पारयामः । पर्वान्ते विजयदशमीति दशमो दिवसः विजयस्य द्योतको भवति ।
दुर्गाष्टम्यां तन्नाम पर्वणः अष्टमे दिवसे अस्मत्पुस्तकानि, कर्मक्षेत्रसम्बद्धानि वस्तूनि, यन्त्राणि वा पूजनार्थः मातुः पुरतः स्थापयामः । यतो वयं सर्वे अस्मज्जीवनयापनार्थम् एषु वस्तुषु निर्भराः स्मः । कृष्यादिकर्मण्युपयुज्यमानानां वस्तूनां पूजनेन प्रत्येकमपि कर्म पूजात्वमेति । पूजासम्पूर्तेः परं तान्येव वस्तूनि प्रसादत्वेन स्वीकृत्य तान्युपयुज्य कर्मकुर्वाणो वयं जीवनस्य पुनरारम्भरूपसम्भ्रममाप्नुमः । विजयदशमी तु नूत्नस्य शुभारम्भस्य सुमुहूर्त इति मन्यते बुधैः । अत एव बालाः तस्मिन् दिने विद्यारम्भं कार्यन्ते । विद्यारम्भस्यादौ लिख्यमाने, “ॐ हरिः, श्री गणपतये नमः” इति वाक्ये आन्तं अक्षरसमाम्नायं अभिव्यङ्क्तः । मानवज्ञानस्य मूलमस्ति खलु अक्षरम्! वाग्देवी यस्य जिह्वाग्रे विलसति सः मूकोऽपि भवति वाग्ग्मी, निरक्षरोऽपि जायते पण्डितः । पारमार्थिकं सत्यमेकमेवास्ति यत् शुद्धा प्रज्ञा । सर्वमपि जगत् रुपान्तरम् अवस्थान्तरं वा प्राप्येत, अथापि जगन्मूलं यदक्षरं तन्न विपरिणमते । तामेव शक्तिं वयं देवीति मन्यामहे । सूर्यः अपि च तत्किरणाः, मधु अपि च तन्मधुरता, शब्दः तदर्थश्च यथा सर्वदा अभिन्नाः तद्वत् देवता तच्छक्तिश्च अभिन्ने एव ।
अस्मदिष्टां देवतामूर्तिं पूजयितुं वयं स्वतन्त्राः । मातेव, गुरुरिव, मित्रमिव, पितेव, प्रभुरिव अथवा अस्मत्पुत्र इव देवं भावयितुं वयं समर्थाः । परं तत्पूजनम् अध्यात्मविषयनिबद्धः स्यात् । मानवसम्बन्धेषु मातृ-पुत्र सम्बन्धः गरीयान् भवति । पुत्रस्य मात्रा सह गरिष्ठमस्ति स्वातन्त्र्यम् । रोदनेन वा सः मात्रा स्वेष्टं फलमाकलयति । माता क्वचित् स्वपुत्रं ताडयेन्नाम, अथापि पुत्रकं गृहीत्वा एव ताडयति सा न तु तं द्रावयति । भवतीं विना न मेऽस्ति अन्यशरणमिति भावो भवति पुत्रकस्य । लोकस्य सर्वस्या अपि समस्यायाः समाधानं मातुरुत्सङ्गे प्राप्नोति बालः । इयमेव दृष्टिः भगवद्विषयेऽपि अस्मासु स्यात् । मातुर्नाम सा भवति सहनशक्तेः पराकाष्ठा । अनेकधा कृतापराधमपि बालं सा सहते, क्षमते च माता । जगन्माता यास्ति सा सर्वस्यापि विषये इमावेम प्रीतिं विधत्ते ।
केचन प्रच्छन्ति यत् “ किमर्थं सा माता मायेत्यभिधीयते? माया नाम या बध्नाति, या मोहयति, या अस्मान् दुःखयति ननु?” इति । परन्तु इदं जगन्नाम देव्या एव व्यक्तं रूपम् । यतः सा सर्वान्तर्मयी, अत एव माया अपि सैव भवति । मायाविमोचनी अपि देवी एव । देवी एव विद्याविद्यास्वरूपा अस्ति । विद्या नयति सत्यं प्रत्यस्मान्, अविद्या नयत्यसत्यं प्रति । मन एव मायेति कथ्यते, सा काचिद्बाह्या शक्तिर्नास्ति । माया नाम मनसः मूलरूपमिव । मन एव कारणं बन्धमोक्षयोः ।
कदाचित् चोराणामेको गणः कस्यचिद्धनमपहृत्य, रज्वा तं बद्धवा, तमेकस्मिन् कूपे निक्षिप्य अहिनत् । स च साह्यार्थम् उच्चैः अक्रन्दत् । तत् श्रुत्वा केचन तदुद्धरणार्थं उपकूपम् अगुः । रज्जुमेकं कूपे प्रक्षिप्य तं मनुष्यम् अरक्षन् जनाः । अत्र हि पूर्वतनो रज्जुः तमबध्नात्, अपरश्च तमरक्षत् । इत्थं मन एव मनुष्यस्य बन्धनस्य मोक्षस्य च हेतुर्भवति । एकया एव कुञ्चिकया द्वारस्य पिधानम् उद्घाटनं वा साध्यम् ननु? कुञ्चिकायाः उपयोगः कस्यां दिशि क्रियते इत्येतदेव निर्धारयति यद्वारस्य पिधानं वा उद्घाटनं वा । मनोऽपि इत्थंरूपमेव । अस्मद्दुःखस्य प्रायशो हेतुर्भवति अतथाज्ञानम् । सायंकाले अस्तंयन्तं सूर्यं दृष्ट्वा शिशुः क्रन्दति, सूर्यो जलेषु निमग्नः इति भावयित्वा । सैव स्थितिरस्माकमपि ।
देवस्य सृष्टौ प्रत्येकस्यापि वस्तुनो भवति तत्तत्प्रामुख्यम् । नात्र किञ्चित् लघुः, न किञ्चित् गुरुर्वा । प्रत्येकमपि जीवं देववद्भावयित्वा सेवताम् । इयं समदृष्टिः अस्मासु अपेक्षिता ।अयमपि नवरात्रिपर्वणः सन्देशो विद्यते । जगतः पराशक्तिः सर्वानपि पोषयन्ती, प्रीणयन्ती च विद्यते मातृवत् ।
सम्यग् ज्ञानस्य आविष्कृतिः अस्मदन्तः एव भवेत् । शास्त्राणां ज्ञानम् अपि च तेषां स्वजीवने पालनमित्यंशः अस्मासु स्यात् सर्वदा । नवरात्र्युत्सवः मत्पुत्रकेषु सर्वेषु इदं ज्ञानं जागरयेत् । सा देवी सर्वानस्मान् आशीर्वदेत् ।