भारतीयाः सन्तोऽपि भारतीयमेव सनातनधर्मं विमृशतां, कदाचित् निन्दतां विषये माता जानात्येव । तेषां निन्दकानां भणितिरस्ति – “ हैन्दवाः प्राचीनकालिका जना । हैन्दवानां श्रद्धाऽपि नैतत्कालिका । तेऽधुनापि प्राक्तना इव वानरं, गजमुखं च पूजयन्ति ” इति । अथ अस्मासु कति जना एतस्याः पूजायाः, तद्देवतामूर्तीनां च वैज्ञानिकं तत्त्वं विदन्ति ? कति नाम जनाः तद्वेत्तुं प्रयत्नं व्यधासिषुः? यदि कश्चिदिदं जिज्ञासुः, तर्हि तस्य को वा मार्गः स्यात् ? इमे सन्ति विषया अद्य जिज्ञासितव्याः ।
विदेशप्रवासवेलायां कदाचिन्माता तत्रत्यानां जनानां गृहेषु भित्तौ नैकानि चित्राणि दृष्टवती । कस्मिंश्चित् गृहे माता एकं चित्रमपश्यत् यत्र केवलं वर्णद्वयं वा त्रयं वा उपयुज्य लिखिताः षट् रेखाः आसन् । तद्यथा, कश्चित् मार्जनीं वर्णपात्रे निमज्य पत्रे तन्मार्जनीं चालितवानिव आसीत् । माता क्षणमेकं तच्चित्रं किमिति नावगतवती एव । विचारिते सति इदं ज्ञातं यत्तस्य चित्रस्य मूल्यमस्ति ५,००,००० डालर् इति ! चित्रमिदं चेरेभ्यो रक्षणार्थं तद्भर्ता रक्षकमेकम् अपि च रक्षणच्छायाग्राहकाणि च नियोजितवानासीत् । यद्यपि तच्चत्रं वयं तावत्किमपि नावगतवन्त एव, अथापि तच्चित्रस्य स्वामी तावत् तदधिकृत्य होराधिकं कालं यावत् उपन्यस्तुं अशक्ष्यत् । तच्चित्रकर्तारं कलाविदं न केऽपि मूर्खम् अमन्वत, किन्तु तं महान्तं कलाकारं मन्यन्ते सर्वे । जगति असङ्ख्याकेषु भुभुक्षितेषु सत्स्वपि त्वं तद्विहाय एतच्चित्रं प्रति किमर्थं तावद्धनं अव्ययः ? इति तत्स्वामिनं न कोऽपि अपृच्छत् । सामान्येन नावगन्तुं शक्यमिति कारणात् चित्रस्य मूल्यं तु न हीयते । तद्वदेव यः खलु उपवर्णितस्य हनूमतः चित्रस्य अन्तर्विद्यमानं तत्त्वं वेत्ति, स तस्य महत्त्वं मूल्यं च अवगन्तुं शक्नोति ।
हनूमतः चित्रणस्य आन्तरिकं तत्त्वं, गणपतेः चित्रणस्य सन्देशं वा पश्यामश्चेत् भारतीयानामस्माकं प्राचीनानां ज्ञानमनुभवश्व कियान् विसृत आसीदिति मनो मोमुदीति ।
देशान्तरस्थजनानां आन्तरिके विषये अधिवक्तुं मातुर्नास्ति कापि इच्छा । किन्तु, देशान्तरेषु अटन्तीं तां तत्रत्या जनाः कदाचित् एतादृशः विषयान् पृच्छन्ति । माता सामान्येन न किमपि प्रतिवदति तान्, यतः सर्वेऽपि तदधिकृत्य स्वकीयान् विचारानाधातुं स्वतन्त्रः समर्थश्च । इमान् विषयान् देशिकाः स्वस्मासु पूर्वं विचिन्त्य तदनन्तरं निर्णयेयुः । अथापि एकं विषयं माता स्वकीयामेरिकादेशप्रवासानुभवमाधृत्य अनुक्त्वा न विरमति यत्, वस्तूनां मूल्यं हि भारते अमेरिकादेशादपेक्षया अधिकतरम् एधमानं वर्तते इति ।
वैदेशिकाः भारतीया इव न अलसाः । यत्किमपि साधु कर्म कर्तुं ते सर्वदा सज्जा एव । अत्र भारते यथा मासि विंशतिदिनानि यावत् कर्मसन्यासो भवति तद्वत् तत्र तु नास्त्येव । (अत्र जनाः अवशिष्टेषु दशदिनेषु कर्म कुर्वन्ति वा इति तु संशयावहो विषयः) । किन्तु इमे एव भारतीयाः देशान्तरं गच्छन्ति, तदा तु आत्मानः परिवर्तयन्ति । प्रतिदिनं द्वाविंशतिहोराः यावत् कर्म कर्तुमपि न विचेतन्ते । तदधिकहोराः कर्म कुर्वन्तोऽपि जनान् जानाति माता । तत्र सन्ति भारतीयाः ये २२ घण्टां यावत् कर्म कृत्वा, तदनन्तरं गृहं गत्वा, पक्त्वा, भुक्त्वा ततः परं सान् रामन् आश्रमं यान्ति सेवाकरणार्थम् । अतो वयं भारतीया यदा देशान्तरं गच्छामः, तदा अधिकाधिकं श्रमं वोढुं नाधिकं विशङ्केम ।
जपान देशे स्त्रियः तासां पतीन् तर्जयन्ति यदि ते दिने न्यूनातिन्यूनं १२ घण्टाः यावत् कर्म न कुर्वते । यदि पतिः कालेन पूर्वं गृहमायाति, तर्हि इमाः पृच्छन्ति “ आर्य! किमर्थं एतावत् शीघ्रमागतवान् गृहम्!” इति । तद्विपरीततया अत्र भारते अष्टौ घण्टाः यावत् कर्मकरणमपि संशयाय । भुक्त्वा, सुप्त्वा, चायं पीत्वा, कति घण्टाः अवशिष्येरन् कर्मणे? अन्येषां देशानां प्रगतौ तद्देशस्थानां जनानां कठिणपरिश्रमः, कर्मश्रद्धा, आत्मसमर्पणमेव कारणम् ।
अत्रापि भारते यद्यपि महान्तो बुद्धिमन्तः कुशलिनो जनाः विलसन्ति, अथापि तेषाम् आलस्यं तु तान्नोद्धर्तुं सहकुरुते । आत्यन्तिकं चिन्तनं भवति तेषां यदहं कथं न्यूनातिन्यूनं कर्म कुर्याम्, कथञ्च अधिकाधिकं सम्पादयेयमिति । यत्र जना स्वदेशस्य भाग्यद्वारपाटनाय स्वभागधेयं दातुं नोत्सहन्ते, तद्देशस्य का वा प्रगतिः शक्येत!? यदि वयं प्रगच्छामश्चेदपि तद्रक्षितुं वयमसमर्था एव भवेम । अत एव भारतमधुनाऽपि समेधमानं राष्ट्रमेव, न तु समृद्धं राष्ट्रम् । यद्यप्येषु दिनेषु वयं जागृताः, अथापि शय्यातलं विहाय नोत्थिताः स्मः । केवलं जागृतिर्नालं, किन्तु कर्म करणमपेक्षते । भवतु भारतमन्येषां देशानां प्रगतिसरणौ देदीप्यमानो दीपः ।