श्रुतस्य विषयस्य सम्यगवगमनार्थम् अस्मासु मुग्धता स्यात् । मुग्ध एव जनः सर्वत्र सात्त्विकतामवलोकयते । अनेनैव मुग्धेन मनसा भगवद्दर्शनमपि शक्यम् । सात्त्विकता एव भगवन्नाम्ना कथ्यते, भगवांश्च लोके सर्वत्र वस्तुषु विद्यत एव । केवलं तद्द्रष्टुं योग्ये नयने अपेक्षेते तावदेव । विज्ञानिनो वदन्ति सर्वमिदं शक्तेः निर्मितम्, शक्तिमयं जगदिति । अस्माकं पूर्वजा ऋषयः ऊचिरे “सर्वं ब्रह्ममयम्” इति । इत्थमेव तद्ब्रह्म वस्तु सर्वत्र द्रष्टुं वयमपि पारयामः, यदि तादृशं मनः चक्षुश्च अस्मदीयं स्यात् । अन्येषु सात्त्विकतां पश्यद्भिः स्वयमेव वस्तुतः आनन्दः अनुभूयते । कस्यचित् विषये यदि वयं प्रीतास्तर्हि अस्माकमेव मनसि जायते आनन्दः । श्रद्धावानेव लभते सर्वम् । अथापि, यदि पूर्वनिश्चितचिन्तनैः सह यदि विषयमेकं श्रुण्मः, तदा वस्तुनिष्टता नायाति अस्माकमवगमने । शुद्धज्ञानस्य अन्वेषक एव शुद्धज्ञानमाप्नोति । अनेकेषां चक्षुषी वर्णमय-उपनेत्रेणावृते, अत एव ते सत्यं द्रष्टुं न पारयन्ति । अस्माकं मनसि विद्यमानमेव चित्रं बाह्ये जगति वस्तुरूपेण परिणमते ।  

एकदा, मद्यपानविरोधि-आन्दोलनं चालयितुकामः कश्चन भिषक् ग्राममेकमगच्छत् । तत्र केषाञ्चन मद्यपानिनां गणमेकं संयोज्य, मद्यपानस्य दुष्परिणामान् विवृण्वन् उपन्यासं प्रादात् । यदा तस्य वचसां निष्प्रयोजकत्वं सः भिषक् विदितवान्, तदा साक्षात् परिणामप्रदर्शनद्वारा तान् अवबोद्धुम् उदयुङ्क्त । चषकद्वयमानीय एकस्मिन् शुद्धं जलम् अपरस्मिन् मद्यं च पूरितवान् । ततः प्रत्येकं चषके कृमिमेकं संस्थापितवान् । जले निमग्नः कृमिः आनन्देन अतरत्, मद्ये निमग्नश्च वेदनया शरीरं विधुन्वन् अन्ते च प्राणान् अत्यजत् । इदं पश्यतां मद्यपानिनां मुखे विद्यमानं  आश्चर्यभावं दृष्ट्वा ‘अन्ततो गत्वा एते मद्यपानस्य घोरं परिणामम् अविन्दत’ इति भिषक् अतुष्यत् । क्षणमेकं तूष्णीं स्थित्वा पुनरप्राक्षीत् “अनेन प्रदर्शनेन भवन्तः किमधीतवन्तः?” इति । तेषु कश्चित् महान् सुरापः कष्टेन शरीरं सन्तुलयन् अवदत् “अद्भुतम् ! अहो आश्चर्यम् ! सर्वेपि दृष्टवन्तः ननु? सुरायां पतितः कृमिः मृतः, तद्वदेव सुरापानेन उदरे विद्यमानाः सर्वेऽपि कृमयः नश्यन्ति” इति ।

तद्वदेव पूर्वनिश्चिताभिप्रायैः यदि वयं विषयमेकमवगन्तुं यतामहे, तर्हि तदन्तर्निहितार्थं वेत्तुं न पारयामः । अस्माभिः श्रुतस्य विषयस्यापि अस्मन्मनसि पूर्वमेव विद्यमानविषयानुगुणं विवररणं करिष्यामः । अथापि शुद्धेन मनसा मुग्घया भावनया यदि चिन्तयामः तर्हि वस्तुस्थितिमवगन्तुं शक्नुमः । यथा विद्युत् अन्धकारे वस्तूनि प्रकाशयति, तद्वदेव मुग्धता अपि मार्गं प्रकाशयति ।

कदाचित् गुरूणां वचसां वास्तविकार्थं न वयं विद्मः, तन्न गुरूणां वचसां मितिः, किन्तु तदवगमनशक्तिविरहः अस्माकमेव क्षतिः । वयं मनोबुद्ध्योः स्तरे एव चिन्तयामः, ततः परं न यामः । अनेकेषु विषयवस्तुषु सक्तत्वात् अस्माकं दृष्टिः क्षीणा वर्तते । अजाते गुरूणां वचसाम् अर्थावबोधे अपि यदि तद्वचः अविचार्य अनुवर्तामहे तर्ह्यपि गम्यमेतुं शक्नुमः । कदाचित् गुरुः शिष्यं तर्जयेत्, तत्तु न कोपेन । देहे विद्यमानायाः क्षतेः चिकित्सावेलायामादौ तस्याः शुद्धीकरणं कार्यं, यच्च वेदानापूर्णं भवति । वेदनापूर्णमिति तत्त्यक्त्वा यदि चिकित्सामः तर्हि क्षतिरेव व्रणायेत । एवमेव गुरुरपि दोषाणां निर्मूलनार्थं कदाचित् तर्जयेत् । स अस्मान् परिपूर्णान् विधातुमेव नितरां यतते ।