श्रुतस्य विषयस्य सम्यगवगमनार्थम् अस्मासु मुग्धता स्यात् । मुग्ध एव जनः सर्वत्र सात्त्विकतामवलोकयते । अनेनैव मुग्धेन मनसा भगवद्दर्शनमपि शक्यम् । सात्त्विकता एव भगवन्नाम्ना कथ्यते, भगवांश्च लोके सर्वत्र वस्तुषु विद्यत एव । केवलं तद्द्रष्टुं योग्ये नयने अपेक्षेते तावदेव । विज्ञानिनो वदन्ति सर्वमिदं शक्तेः निर्मितम्, शक्तिमयं जगदिति । अस्माकं पूर्वजा ऋषयः ऊचिरे “सर्वं ब्रह्ममयम्” इति । इत्थमेव तद्ब्रह्म […]