भवन्तः सर्वे परितः निरीक्ष्य परितःस्थितिं निरूपयित्वा अद्यतनलोकस्य दशां अवबुध्यन्तु। एतद् दिनं तदर्थमेव। लोके जनाः केन प्रकारेण कष्टमनुभवन्ति, तेषां जीवनं कथम् भवति इति च अस्माभिः ज्ञातव्यम्।
गतवर्षे घटितं वृत्तान्तमेकं इदानीं स्मरामि। मुम्बैनिवासिभ्यः पुत्रेभ्यः एतत् श्रुतं मया। मुम्बैनगरे कश्चन व्यक्तिः प्रमेहरोगेण६३. नितरां पीडितः आसीत्। तस्य पादे एकः क्षतः अभवत् तत् दुष्टं भूत्वा व्रणं च अभवत्। वैद्येन उक्तम्- ‘भवतः पादस्य छेदनं करणीयम् अन्यथा एषः पूयः जंघायामपि व्याप्नोति’ इति। सः अत्यन्तं दुःखितः अभवत्। न तु केवलम् पादनष्टनिमित्तं दुःखं किन्तु पादच्छेदनार्थम् दशसहस्ररूप्यकाणि च आवश्यकानि। स्थायीरुपेण तस्य धनागमः न कोऽपि आसीत्। यत् वित्तं येनकेनापि उपायेन आर्जितम् तद् गृहकार्यार्थमपि न पर्याप्तम्। रोगबाधानन्तरम् स्वकृत्यनिर्वहणार्थमपि स न गच्छति। वैद्येनोपदिष्टं औषधं ग्रहीतुमपि निर्धनस्य तस्य वैष्यम्यम्। एतस्मिन् अवस्थायाम् सः पादच्छेदनार्थम् कथम् वित्तमार्जयति? एकस्मिन् दिने अतिविषण्णः सन् सः रेलयानस्य मार्गे स्वपादम् स्थापितवान्। रेलयानस्य तस्य पादच्छेदः अभवत् किन्तु रुधिरप्रवाहेण सः मृतप्रायः अभवत्। तत्र सम्मिलितैः जनैः सः आतुरशालाम् प्रवेशितः। किमर्थं एवं व्यवहृतवान् इति तैः पृष्टे सति सः अवदत् – “पादच्छेदनार्थम् मम धनम् नास्ति। छेदनम् विना जीवितुम् न शक्नोमि। छेदनार्थम् निर्धनस्य मम अन्यत् किमपि मार्गं नासीत्। तस्मात् मया एवम् कृतम्।”
सर्वे तस्य जीवितम् पश्यन्तु। इदानीम् अस्माकम् आतुरालयः अस्ति। यद्यपि सर्वेषाम् मूल्यरहितचिकित्सा तत्र न सम्भवति तथापि अनेकानां निर्धनानां विनामूल्यं शल्यचिकित्सा तत्र प्रचलति। किञ्च, आतुरालयात् गत्वा पुनः यानि औषधानि अवश्यम्ग्रहणीयानि तदर्थं धनमपि तेषां निर्धनानां हस्ते नास्ति। पुनः वैद्येन शल्यचिकित्सानन्तरं ‘कानिचन दिनानि विश्रमः करणीयः’ इति उपदिष्टमित्यतः ते स्व कर्मकरणार्थम् गन्तुमपि न शक्नुवन्ति। एवम् सर्वे गृहजनाः अपि क्षुदार्ताः सन्तः शयन्ति।
परितः पश्याम: चेत् एतादृशान् अनेकान् जनान् द्रष्टुम् शक्नुमः। सुखभोगार्थं विलासार्थं वा वयं भुरि धनं व्ययः कुर्मः। तद् निर्धननाम् औषधार्थम् वा भोजनार्थम् वा साधुबालकानाम् शोभनभाविम् उद्दिश्य तेषाम् अध्ययनार्थम् वा उपयोक्तव्यम्। परस्परस्नेहस्य सेवनस्य च एषः मनोभावः एव अस्माभिः आध्यात्मिकमार्गे स्वीकरणीयः|