२००९ नवम्बर् मासे आश्रमे ब्रह्मचारिणां निमित्तं संस्कृतवर्गः आरब्धः । गीताशिक्षणकेन्द्रस्य पाठ्यक्रमः आश्रितः । २०१० जून् मासे ७ दिनाङ्कतः १६ पर्यन्तं तेषां प्रशिक्षणशिबिरम् आयोजितम् । गीतासोपानस्य प्रथमभागं समाप्य द्वितीयभागं पठन्तः ते प्रशिक्षणार्थं आगताः । उपषष्टि ब्रह्मचारिणः/ ब्रह्मचारिण्यः शिबिरार्थिनः अभवन् । अन्ये नूतनाः ब्रह्मचारिण्यः गृहस्थाः आदर्शशिबिरार्थिनः च आसन्

एतस्मिन् प्रशिक्षणे अ.भ.सं.मन्त्री श्री दिनेशकामतः, अ.भ. पूर्णकालिकप्रमुखः डा. को.ना. पद्मकुमारः च अभ्यागतौ आस्ताम् । अ.भ.सम्पर्कप्रमुखः प.नन्दकुमारः तथा दक्षिणसंभाग-संयोजकः न. सुरेशः वर्गेऽस्मिन् पूर्णतया स्थित्वा मार्गदर्शनं कृतवन्तौ

परं अस्य प्रशिक्षणस्य प्रभावः आश्रमे दृष्टः । एतेन अन्ये अन्तेवासिनः सर्वेऽपि संस्कृततत्पराः संञ्जाताः । सप्त सम्भाषणशिबिराणि सपदि आयोजितानि । एकं शिबिरं विदेशीयानां कृते आसीत् इत्यत्र विशेषः । नूतनप्रशिक्षिताः शिबिरचालकाः अभवन् । उपद्विशतं जनाः शिबिरार्थिनः आसन् । शिबिरसमारोपः वैभवेन जूलै १८  दिनाङ्के समाचरितः । घण्टाद्वयात्मककार्यक्रमे वृद्धाः मातरः अपि सोत्साहं कार्यक्रमान् कृतवत्यः। प्रान्तीयसम्पर्कप्रमुखः श्री. पि. आर्. शशी समारोपे भागं स्वीकृतवान् । शिबिरानन्तरं मठे षड् साप्ताहिकवर्गाः आरब्धाः