वयम् न द्वीपवत् पृथक् स्थिताः किन्तु एकस्यैव शृङ्खलायाः सन्धयः। अस्माकम् प्रत्येकम् कर्म स्पष्टतया अस्पष्टतया वा अन्यान् बाधते।अस्मिन् लोके यानि युद्धानि पूर्वम् अभूवन् तानि सर्वाण्यपि केषांचित् मनुष्याणां मनस्सु सञ्जातात् विद्वेषात् उद्भूतानि। एवम् एकस्य चिन्तया तस्य कर्मणा च अनेकानाम् नाशः अभूत्। हिट्लर् एकः व्यक्तिः आसीत्। परन्तु तस्य कर्मणा अनेकाः बाधिताः। आस्माकम् विचाराः अन्यान्, तथा एव अन्येषाम् विचाराः अस्मान् च बाधन्ते इति ज्ञात्वा मनसि सद्विचारान् एव धारयितुं वयं सावधाना भवेम। आदौ अपरस्य मानसिकपरिवर्तनम् भवेत्, तदनन्तरं अहमपि परिवर्तनार्थम् प्रयत्नं करिष्यामि इति कदापि न चिन्तनीयम्। अपरेषु अपरिवर्तितेष्वपि मम परिवर्तनम् निश्चयेन भवितव्यम् इति चिन्तयित्वा अस्माभिः परिश्रमः करणीयः। तदा एव यथार्थं परिवर्तनं संभवति। अयमेव अध्यात्मिकशास्त्रस्य उपदेशः।
अद्यतनस्तावत् त्यागस्य दिनः इति मात्रा आदौ उक्तम्। त्यागेनैव अस्माकम् संस्कारस्य उद्धारः सम्भवति। अयम् दिनः ऋषिभिः प्रदत्तस्य सम्स्कारस्य स्मरणार्थमेव न तु बाह्याघोषार्थं विलासार्थं वा। यदा वयं व्यष्टिबोधम् परित्यज्य सत्कर्मणि आनन्दं अनुभवामः तदा एव अस्माकं जीवितं उत्सवं भवति। उल्लासस्य संस्कृतेश्च मिलनं भवितव्यम्। तत एव जीवनं उत्सववत् परिणमति। संस्कारसहितः आघोषः शिशोः मन्दहासवत् निष्कलङ्को भवति। संस्काररहितः आघोषः तु अस्मान् पशुत्वं प्रति नयति।
अद्य लोके सर्वप्रकारेण धर्मस्य अपचयः एव सम्भवति इति वयम् सर्वे जानीमः। राजनैतिकक्षेत्रे, शैक्षणिकक्षेत्रे कुटुम्बे वा संस्कारस्य अपचयः एव। आध्यात्मिकां शक्तिं उपयुज्य एव संस्कारस्य उद्धारः कर्तुम् शक्यते। आध्यात्मिकं तादृशं शास्त्रम् अस्ति यद् अस्मज्जीवितान् शाक्तीकरोति। आध्यात्मविद्या तादॄशा कला अस्ति या अस्मज्जीवनस्य सौन्दर्यम् वर्धयति।