सद्गुरुमाता अमृतानन्दमयी देव्याः निर्देशानुसारं गत २००९ ओक्टोबर् मासे आश्रमे ब्रह्मचारिणां निमित्तं संस्कृताध्ययनार्धं वर्गः आरब्धः । २५० जनाः वर्गार्थम् आगताः । विश्वसंस्कृतप्रतिष्ठानस्य संस्कृतभारति कार्यकर्तारः र्वगं सञ्चालितवन्तः । प्रथमदशदिवसेषु सम्पाषण शिबिरम् अबवत् । अनन्तरं संस्कृतद्वारा-गीता-भगवद्गीता द्वारा संस्कृतम् इत्येषः पाठ्यक्रमं स्वीकृत्य अध्ययनम् आरब्धम् । इदानीं पञ्च घट्टात्मकस्य अस्य पाठ्यक्रमस्य द्वितीयं घट्टं समाप्तम् । एते वर्गाः प्रतिदिनं अनवरतं चलन्ति ।

२०१० जून् मासे ७-१६ पर्यन्तं आश्रमे पठितॄणां ब्रह्मचारिणां कृते शिक्षकप्रशिक्षणं प्रदत्तम् । येन सरलसंस्कृतस्य शिक्षणं ते अन्येभ्यः दातुं शक्नुयुः । तदनु आश्रमे अन्तेवासिनां, अन्येषां गृहस्थानां कृते संस्कृतवर्गाः आयोजिताः । तेषां कृते प्रशिक्षिताः शिबिराणि च चालितवन्तः । अद्य् विदेशियानां निमित्तं सप्ताहे दिनद्वयं, गृहस्धानां निमित्तं सप्ताहे दिनद्वयं, तथाच बृह्मचारिणां । बृह्मचारिणीनां निमित्तं प्रतिदिनं रात्रिकालेषु वर्गाः प्रचलन्ति ।