ध्यानं सुवर्णमिव मूल्यवत् इति माता सर्वदा स्मारयाति। ऐश्वर्यं मोक्षं मनःशान्तिं च प्राप्तुं ध्यानं उत्तमोपायः भवति। ध्यानं नाम न केवलं आसनविशेषे उपविश्य नेत्रनिमीलनम्। वस्तुतः अस्माकं कर्मणां, वचसां, विचाराणां च विषये बोधपूर्वं वर्तनमेव ध्यानम्। चित्तवृत्तयः जलबिन्दव इव उद्भूय क्रमशः वृद्धिं प्राप्य वाग्रूपेण प्रवृत्तिरूपेण च परिणम्य नदीवत्
बहिः प्रवहति। तस्याः वेगं नियन्तुं निरोद्धुं वा वयं न शक्नुमः। नद्याः प्रभवस्थाने क्षुद्रः पाषाणखण्डः अपि नदीप्रवाहस्य दिशां परिवर्तयितुं, नद्याः पुरोगमनं निरोद्धुं च समर्थः भवति। परन्तु अग्रे गत्वा यदा सा सरित् वृद्धिं प्राप्य नदीरूपेण परिणमति, तावता सा दुर्निरोध्या भवति। अतः चित्तवृत्तिषु परमा श्रद्धा दातव्या। चित्तवृत्तिः वाग्रूपेण वाक् प्रवृत्तिरूपेण च परिणमति, तदनन्तरं तन्निरोधः दुष्करः भवति। अत एव चिन्तायां वाचि कर्मणि च श्रद्धा सततं आवश्यकी इत्युच्यते। मुद्रायां यदि कश्चित् दोषः वर्तते चेत् तदुपयुज्य निर्मीयमाणेषु सर्वेष्वपि वस्तुषु सः दोषः भविष्यति। तद्वत् मनः सम्यक् न रक्षितं चेत् मनसः उत्पद्यमानाः वाग्प्रवृत्तयः अपि सम्यक् न भवेयुः। अतः मनोनियमनं प्रथमतया साधनीयम्। मनोनियमनार्थं ध्यानमेव उत्तमः उपायः। अस्माकं अन्तः वर्तमानायाः निश्चलतायाः अनुभव एव ध्यानम्।