अस्माकं सर्वेषां ज्ञानमस्ति किन्तु बोध: नास्ति। अत: अस्माकं जन्मोद्देशः सफलो न भवति। वयं विषयमेकं चिन्तयामः, किंचिदन्यत् वक्तुम् आरभामः पुनः ततोऽप्यन्यत् किमपि वदामः अनन्तरं विपरीतं किमपि प्रवर्तयामः। अस्माकं जीवनं एतादृशं संवृत्तम्। वयं सर्वे अर्धसुषुप्तौ इव जीवामः। एतस्मिन् वयसि अपि वयं अस्माकं विचारभाषणाचरणेषु बोधं आनेतुं न शक्नुमः।

आस्मिन् विषये कथां एकां स्मरामि। एकदा कश्चित् पिता स्वपुत्रम् उत्थापयन् एवं अवदत् – “अरे पुत्र, उत्तिष्ठतु उत्तिष्ठतु। विद्यालयगमनार्थं समय: आगतः। त्वं किमर्थं न उत्तिष्ठसि?” इति।
तदा पुत्रः अवदत् -“अहं विद्यालयं न गन्तुमिच्छामि”।
“किमर्थं न गन्तुमिच्छसि?”
“पितः, विद्यालयगमनं तु सर्वथा अरोचकं।”
“तत्कथम् विद्यालयगमनं तव अरोचकं भाति?”
“विद्यालये सर्वे छात्राः मां परिहसन्ति।”
“पुत्र, त्वया उक्तानि त्रीण्यपि कारणानि इदानीं मया श्रुतानि। ममापि कारणत्रयं वक्तव्यमस्ति। तत्त्वया श्रोतव्यम्।”
“आम्, भवान् तद् वदतु।”
“विद्यालयगमनं तव उत्तरदायित्वमस्ति इति प्रथमकारणम्, द्वितीयं तु भवतः आयुः पञ्चाशत् सम्प्राप्तम् इति, तृतीयं तु भवान् एव विद्यालयस्य प्रथमाध्यापकः इति।

एकदा सः चौर्यार्थम् एकं गृहं प्रविष्टवान्। यदा सः लधुकोष्ठतः मालां गृहीतुम् उद्युक्तः तदा गुरोः वचनं स्मृतवान्। सः अचिन्तयत् , “यदि अहं एनां मालां अपहृत्य गृहस्वामिनं वदामि चेत् सः मां गृहीत्वा राजपुरुषेभ्यः दास्यति। तेभ्यः दंण्डनमपि लप्स्यते। कारागृहवासोऽपि भविष्यति।” मालां अपहर्तुं मनसा पुनःपुनः प्रेरितोऽपि सः तत्कर्तुं अशक्तः अभवत्। राजपुरुषाणां दण्डनस्य कठोरतां स्मृत्वा सः मालां न अचोरयत्। आगामि दिने अपि तां मालां अपहर्तुं अशक्त: सः गुरुं अभिगम्य अवदत् “भवतः उपदेशः निरर्थकः भाति। चौर्यात् पूर्वं वा चौर्यानन्तरं वा मया स्वामिः बोधितव्यः इति भवता उक्तं। एवं चेत् चौर्यं कथं कर्तुं शक्यते?”

गुरुः प्रत्यवदत्, “भवन्तं चौर्यकर्मात् निवर्तयितुम् अहं एवं उपदिष्टवान्। यदा भवान् मम वचनं स्मृतवान् तदा भवतः मनसि उत्तमबोधः आविर्भूतः। भवतः कर्मणः दुष्परिणामः कीदृशः स्यात् इति तदा एव भवता सम्यग् अवगतम्। पापाचरणात् आत्मानं निवारयितुं एतत् ज्ञानं उपयुक्तं च अभवत्।

अस्माकं कर्मणां फलं किमिति उत्तमबोधः अस्ति चेत् कोऽपि पापं आचरितुं न शक्यते। एषः बोधः अस्मासु नास्ति इत्यत एव वयं अधर्ममाचरामः।

 अस्माकं जीवितस्य प्रत्येकः निमिषः पूर्णस्वातन्त्र्येण उत्साहेन च पूरयितव्यः। जीवितं उत्सवोपमं भवितव्यम्। किन्तु इदानीम् एवं भवति वा? “कथं अस्ति भवान्?” इति पृष्टः चेत् सर्वेपि दुःखकथाम् एव श्रावयन्ति। एतस्य कारणं किम्? ममता एव अत्र कारणम्। अनेन किमपि प्रयोजनमस्ति वा? कोऽपि लाभः अस्ति वा? अत्र (आश्रमे)उपविश्य भवन्तः सर्वे स्वकलत्रपुत्रादीनां विषये चिन्तयन्ति चेत् तेन तेषां भवतां वा किमपि प्रयोजनं अस्ति वा? केवलं समयव्ययः एव भवति।

वस्तुतः सर्वेऽपि एकाकिनः। जनमध्ये वा एकान्ते वा वयं सदा एकाकिनः एव । तथापि वयम् अन्यान् आश्रयामः। परेषां मन्दहासं द्वेषं वा आश्रित्य एव अस्माकं जीवनम् प्रचलति। अस्मान् दृष्ट्वा कश्चित् मन्दं हसति चेत् वयं हृष्टाः, द्विषति चेत् खिन्नाश्च भवामः। कदाचित् आत्महत्यामपि कुर्मः। नो चेत् तं मारयितुं च इच्छामः। एवं वयं निरन्तरं स्वस्वरूपं त्यक्त्वा रूपान्तरं स्वीकुर्मः। निमिषमेकमपि वयं स्वात्मनि न तिष्ठामः। अतः अस्माकं प्रत्येके कर्मणि एषः बोधः जनयितव्यः। एतदर्थं उत्तमः मार्गः एव ध्यानम्।