संप्रति बालानां बहुषु विषयेषु उत्तमं ज्ञानमस्ति। किन्तु आध्यात्मिकज्ञानं विना तेषां ज्ञानं आधारहीनं गृहमिव संजातम्। अद्य विद्यालया: विश्वविद्यालयाश्च रणांगणाः इव सन्ति। युद्धभूमौ इव कलहाः कोलाहलाश्च अद्य विद्यालयेष्वपि दृश्यन्ते, तस्य हेतुः राजनैतिकः अन्यो वा चेदपि।
माता राजनीतिम् लघूकृत्य न वदति| एकैकस्यापि निजं स्थानमस्ति। तस्मिन्नैव स्थाने तद् वर्तव्यम्। विद्यालयेषु विद्याभ्यासाय प्राथम्यं दत्वा छात्रैः तदर्थं प्रयत्नः करणीयः। अनेन सह संस्कारस्य पोषणमपि कर्तव्यम्। अद्य तावत् छात्राः येन केनापि प्रकारेण प्रमाणनिर्णयपत्रं प्राप्तुमेव तत्पराः, न तु विद्याभ्यासद्वारा संस्कारपोषणं साधयितुम्। अध्यापकाः अपि छात्रान्न् एतदर्थं उत्तेजयितुं न तत्पराः। किमर्थं विद्याभ्यास: इति प्रतिबोधः अपि इदानींतनछात्राणां नास्ति। अत: समीचीनं ज्ञानं सम्स्कारः वा तेषु न दृश्येते। विद्यालयेषु छात्राः अध्यापकैः सह विनयपूर्वं न व्यवहरन्ति। अत: तत्र अध्यापकाः यन्त्रवत्; छात्राः भित्तिवत् च सञ्जाताः। तत्र छात्राणां अध्यापकानां च हॄदयानि परस्परं न संवदन्ति। यः एकत्वभाव: छात्राणां आवश्यकः सः तेषु न प्रजायते। विद्यालयगमनस्य लक्ष्यं विस्मृत्य ते अन्यत्र परिभ्रमन्ति। अद्य विद्याभ्यास: तु युतकानुरूपं शरीरच्छेदनवत्, पादुकानुरूपं पादच्छेदनवच्च भवति। अद्य आप्तविद्याः जंगमसंगणकयन्त्रवत्, अलंकृतः कुणप इव च संवृत्ताः। ते हृदयशून्याः परिवृत्ताः। अद्य वयं केवलं कर्म कर्तुमेव जीवन्ति; न तु जीवनार्थं कर्म। जीवनं तु सर्वथा यान्त्रिकं संजातम्।
माता एकां कथां स्मरामि। एकदा कश्चित् पुरुषः स्वमित्रं दृष्टुं गतवान्। तदवसरे स्नेहितः जलनलिकाम् उपयुज्य उद्यानस्य सेचनं करोति स्म। सः जलनलिकां गृहीत्वा एकैकस्यापि वृक्षस्य समीपम् तिष्ठति स्म। किन्तु नालिकायाः जलं न निःसरति स्म। एतद् दृष्ट्वा अभ्यागतः मित्रं पृष्टवान्, “भवान् किं करोति? विना जलेन वृक्षानां सेचनं कथं भवति? जलनलिकायां रन्ध्र: अस्ति वा इति पश्यतु!” इति। एतद् श्रुत्वा मित्रं प्रत्यवदत्, “भवान् तान् वृक्षान् सम्यक् पश्यतु” इति। तदा एव स: अवगतवान् यत् तस्मिन् उद्याने सर्वे वृक्षाः कृतकाः इति। एवमेव अद्य अस्माकम् दशा। अस्माभिः सर्वैः कृतकानि उद्यानान्येव सृज्यन्ते। तेषु जीवस्पन्दनं, चेतनायाः सुगन्ध:,जीवस्पन्दनस्य सौन्दर्यं वा न विद्यन्ते। यन्त्राणां प्रयोग: आवश्यकः, किन्तु स्वजीवनं यान्त्रिकं न भवितव्यम्। अद्य अस्माकं हृदयानि भग्नानि सन्ति। वयं हृदयस्य भाषां विस्मृत्य केवलं यन्त्राणि इव विचरन्तः स्मः।
– मातु: जन्मदिनसन्देश: – वर्ष: २०००