ध्यानं सुवर्णमिव मूल्यवत् इति माता सर्वदा स्मारयाति। ऐश्वर्यं मोक्षं मनःशान्तिं च प्राप्तुं ध्यानं उत्तमोपायः भवति। ध्यानं नाम न केवलं  आसनविशेषे उपविश्य नेत्रनिमीलनम्। वस्तुतः अस्माकं कर्मणां, वचसां, विचाराणां च विषये बोधपूर्वं वर्तनमेव ध्यानम्। चित्तवृत्तयः जलबिन्दव इव उद्भूय क्रमशः वृद्धिं प्राप्य वाग्रूपेण प्रवृत्तिरूपेण च परिणम्य नदीवत्

बहिः प्रवहति। तस्याः वेगं नियन्तुं निरोद्धुं वा वयं न शक्नुमः। नद्याः प्रभवस्थाने क्षुद्रः पाषाणखण्डः अपि नदीप्रवाहस्य दिशां परिवर्तयितुं, नद्याः पुरोगमनं निरोद्धुं च समर्थः भवति। परन्तु अग्रे गत्वा यदा सा सरित् वृद्धिं प्राप्य नदीरूपेण परिणमति, तावता सा दुर्निरोध्या भवति। अतः  चित्तवृत्तिषु परमा श्रद्धा दातव्या। चित्तवृत्तिः वाग्रूपेण वाक् प्रवृत्तिरूपेण च परिणमति, तदनन्तरं तन्निरोधः दुष्करः भवति। अत एव चिन्तायां वाचि कर्मणि च श्रद्धा सततं आवश्यकी इत्युच्यते। मुद्रायां यदि कश्चित् दोषः वर्तते चेत् तदुपयुज्य निर्मीयमाणेषु सर्वेष्वपि वस्तुषु सः दोषः भविष्यति। तद्वत् मनः सम्यक् न रक्षितं चेत् मनसः उत्पद्यमानाः वाग्प्रवृत्तयः अपि सम्यक् न भवेयुः। अतः मनोनियमनं प्रथमतया साधनीयम्। मनोनियमनार्थं ध्यानमेव उत्तमः उपायः। अस्माकं अन्तः वर्तमानायाः निश्चलतायाः अनुभव एव ध्यानम्।

 

अस्माकं सर्वेषां ज्ञानमस्ति किन्तु बोध: नास्ति। अत: अस्माकं जन्मोद्देशः सफलो न भवति। वयं विषयमेकं चिन्तयामः, किंचिदन्यत् वक्तुम् आरभामः पुनः ततोऽप्यन्यत् किमपि वदामः अनन्तरं विपरीतं किमपि प्रवर्तयामः। अस्माकं जीवनं एतादृशं संवृत्तम्। वयं सर्वे अर्धसुषुप्तौ इव जीवामः। एतस्मिन् वयसि अपि वयं अस्माकं विचारभाषणाचरणेषु बोधं आनेतुं न शक्नुमः।

आस्मिन् विषये कथां एकां स्मरामि। एकदा कश्चित् पिता स्वपुत्रम् उत्थापयन् एवं अवदत् – “अरे पुत्र, उत्तिष्ठतु उत्तिष्ठतु। विद्यालयगमनार्थं समय: आगतः। त्वं किमर्थं न उत्तिष्ठसि?” इति।
तदा पुत्रः अवदत् -“अहं विद्यालयं न गन्तुमिच्छामि”।
“किमर्थं न गन्तुमिच्छसि?”
“पितः, विद्यालयगमनं तु सर्वथा अरोचकं।”
“तत्कथम् विद्यालयगमनं तव अरोचकं भाति?”
“विद्यालये सर्वे छात्राः मां परिहसन्ति।”
“पुत्र, त्वया उक्तानि त्रीण्यपि कारणानि इदानीं मया श्रुतानि। ममापि कारणत्रयं वक्तव्यमस्ति। तत्त्वया श्रोतव्यम्।”
“आम्, भवान् तद् वदतु।”
“विद्यालयगमनं तव उत्तरदायित्वमस्ति इति प्रथमकारणम्, द्वितीयं तु भवतः आयुः पञ्चाशत् सम्प्राप्तम् इति, तृतीयं तु भवान् एव विद्यालयस्य प्रथमाध्यापकः इति।

एकदा सः चौर्यार्थम् एकं गृहं प्रविष्टवान्। यदा सः लधुकोष्ठतः मालां गृहीतुम् उद्युक्तः तदा गुरोः वचनं स्मृतवान्। सः अचिन्तयत् , “यदि अहं एनां मालां अपहृत्य गृहस्वामिनं वदामि चेत् सः मां गृहीत्वा राजपुरुषेभ्यः दास्यति। तेभ्यः दंण्डनमपि लप्स्यते। कारागृहवासोऽपि भविष्यति।” मालां अपहर्तुं मनसा पुनःपुनः प्रेरितोऽपि सः तत्कर्तुं अशक्तः अभवत्। राजपुरुषाणां दण्डनस्य कठोरतां स्मृत्वा सः मालां न अचोरयत्। आगामि दिने अपि तां मालां अपहर्तुं अशक्त: सः गुरुं अभिगम्य अवदत् “भवतः उपदेशः निरर्थकः भाति। चौर्यात् पूर्वं वा चौर्यानन्तरं वा मया स्वामिः बोधितव्यः इति भवता उक्तं। एवं चेत् चौर्यं कथं कर्तुं शक्यते?”

गुरुः प्रत्यवदत्, “भवन्तं चौर्यकर्मात् निवर्तयितुम् अहं एवं उपदिष्टवान्। यदा भवान् मम वचनं स्मृतवान् तदा भवतः मनसि उत्तमबोधः आविर्भूतः। भवतः कर्मणः दुष्परिणामः कीदृशः स्यात् इति तदा एव भवता सम्यग् अवगतम्। पापाचरणात् आत्मानं निवारयितुं एतत् ज्ञानं उपयुक्तं च अभवत्।

अस्माकं कर्मणां फलं किमिति उत्तमबोधः अस्ति चेत् कोऽपि पापं आचरितुं न शक्यते। एषः बोधः अस्मासु नास्ति इत्यत एव वयं अधर्ममाचरामः।

 अस्माकं जीवितस्य प्रत्येकः निमिषः पूर्णस्वातन्त्र्येण उत्साहेन च पूरयितव्यः। जीवितं उत्सवोपमं भवितव्यम्। किन्तु इदानीम् एवं भवति वा? “कथं अस्ति भवान्?” इति पृष्टः चेत् सर्वेपि दुःखकथाम् एव श्रावयन्ति। एतस्य कारणं किम्? ममता एव अत्र कारणम्। अनेन किमपि प्रयोजनमस्ति वा? कोऽपि लाभः अस्ति वा? अत्र (आश्रमे)उपविश्य भवन्तः सर्वे स्वकलत्रपुत्रादीनां विषये चिन्तयन्ति चेत् तेन तेषां भवतां वा किमपि प्रयोजनं अस्ति वा? केवलं समयव्ययः एव भवति।

वस्तुतः सर्वेऽपि एकाकिनः। जनमध्ये वा एकान्ते वा वयं सदा एकाकिनः एव । तथापि वयम् अन्यान् आश्रयामः। परेषां मन्दहासं द्वेषं वा आश्रित्य एव अस्माकं जीवनम् प्रचलति। अस्मान् दृष्ट्वा कश्चित् मन्दं हसति चेत् वयं हृष्टाः, द्विषति चेत् खिन्नाश्च भवामः। कदाचित् आत्महत्यामपि कुर्मः। नो चेत् तं मारयितुं च इच्छामः। एवं वयं निरन्तरं स्वस्वरूपं त्यक्त्वा रूपान्तरं स्वीकुर्मः। निमिषमेकमपि वयं स्वात्मनि न तिष्ठामः। अतः अस्माकं प्रत्येके कर्मणि एषः बोधः जनयितव्यः। एतदर्थं उत्तमः मार्गः एव ध्यानम्।

अमृतपुर्यां माता अमृतानन्दमयी मठे नवं १० तः १३ पयर्यन्तं ’माहेश्वरमृतम्’ व्याकरणशिबिरं प्राचलत्। शिबिरेऽस्मिन् ६० जनाः भागं स्वीकृतवन्तः । १० दिनाङ्के मातृवाणी पत्रिकायाः सम्पादकः स्वामी ज्ञानामृतानन्दपुरी दीपं प्रोज्ज्वाल्य शिबिरस्य उद्घाटनं कृतवान् । शिबिरे सम्भाषणसन्देशस्य सम्पादकः श्री जनार्दन हेगडे , संस्कृतभारत्याः रक्षाधिकारी डा.जि.गंगाधर महोदयः, स्ंस्कृतभारत्याः अखिलभारत-सम्पर्क्कप्रमुखः श्री वसुवच् , तिरुवनन्तपुरम् सर्वकारसंस्कृतमहाविद्यालयस्य प्राचार्यौ श्री.ईश्वरः , श्री.सुधीषः च वर्गाणि चालितवन्तः । वर्गाः मुख्यतः लघुसिद्धान्तकौमुद्याः संज्ञा-सन्धि-कारकप्रकरणानि अधिकृत्य आसन् । १३ दिनाङ्के भरतीपूजया शिबिरम् समाप्तम् । पूजाकार्यक्रमे विश्वसंस्कृतप्रतिष्ठानस्य मुख्यकार्यदर्शी श्री.श्रीकुमारः मुख्यभाषणम् कृतवान्। संस्कृतभारत्याः अखिलभारतमहामन्त्रेः श्री.नन्दकुमारस्य निर्देशकत्वे शिबिरस्य आयोजनम् अभवन् ।

 

 

अद्य अस्मद्देशीयाः बालका: युवजनाश्च प्रायशः पाश्चात्यसम्स्कारं अनुवर्तमानाः दृश्यन्ते। अस्मासु अविद्यमानाः बहवः गुणाः कदाचित् पाश्चात्यानां मध्ये स्युः। परन्तु अद्य भारतीयाः स्वसंस्कारं, स्वीयान् मूल्यान् च सर्वथा विस्मृत्य तेषां जीवनसरणीं अन्धवत् अनुकुर्वन्तः दृश्यन्ते। तत्तु आकारदेन निर्मितस्य आतावृक्षफलस्य दम्शनवत्, परमशिवस्य ब्रह्मरूपधारणवच्च हास्यास्पदं भवति। तद्वारा अस्माकं यथार्थं स्वत्वमपि नष्टं भवति। अतः अस्माकं मूलसम्स्कारं प्रति गन्तुं प्रयत्नः कर्तव्यः । एतदर्थं शैशवादारभ्य बालकेषु अस्मदीयस्य संस्कारस्य दृढीकरणार्थं मातरः जागरूका वर्तव्या। एतदर्थं इदानीमपि कालः न अतीत:। अस्माकं संस्कार: सम्यक् परिज्ञाय गुरुजनै: सः युवजनानां मध्ये प्रचरणीयः। परन्तु अद्य प्रायशः मातापितरः स्वपुत्रान् ’त्वं सम्यक् विद्यां अधीत्य भिषग् वा तन्त्रज्ञो वा जिल्हाधिकारी वा भव’ इति उपदिशन्ति। ते केवलं एतदेव पुत्रान् उपदिशन्ति। एतद् अनुचितम् इति माता न वदति। परन्तु अनेन सह मानुषिकमूल्यानि कथं संवर्धनीयानि इति मातापितृभिः स्वजीवनद्वारा प्रदर्शनीयम् इत्येव मातुः अभिप्रायः।

बालानां मनांसि अधुना एव निर्मितं प्रतलमिव सन्ति। तदुपरि अङ्कितानि पदचिह्नानि न विनश्यन्ति। अतः कौमारादारभ्य तेषु उत्तमसम्स्कारस्य विकसनार्थं परिश्रम: आवश्यक:। अयं सम्स्कारः तेषां जीवनस्य आधारशिला इव वर्तते। उत्तमरीत्य विद्यां अधीत्य प्रभूतं धनं सम्पादयित्वा ससुखं जीवतः पुत्रान् द्र्ष्टुं वयं सर्वे उत्सुका:। किन्तु यावत् तैः आध्यात्मिकसम्स्कारः न स्वीक्रियते तावत् केवलं विद्यायाः, मानस्य, धनस्य वा अर्जनेन मातापितृणां समाजस्य वा शान्ति: न भवितुमर्हति। विद्यामानधनेषु विद्यमानेऽपि स्वपुत्राणाम् स्वेच्छाचारम् दृष्ट्वा अश्रूणि श्रावयतः मातापितृन् माता जानाति। अतः सम्स्कार: एव सर्वस्यापि आधार:। संस्कार एव पितॄभिः स्वपुत्राणां कृते दातव्या सर्वोत्तमा संपत्तिः। केवलं विद्यालयद्वारा पुस्तकद्वारा वा बालेषु संस्कार: संवर्धयितुं न शक्नुमः। तदर्थं आदौ अस्माकं जीवितानि सुसंस्कृतानि भवितव्यानि। यदि अस्मासु एव परिवर्तनं न जायते चेत् वयं अस्माकं पुत्रपौत्रेषु परिवर्तनं आनेतुं कथं शक्नुमः। अद्य वयं सुवर्णस्य विनिमयेन अभ्रकं (सुवर्णसदृशः कश्चन धातुः) स्वीकुर्वन्तः स्म। एतद्देशस्य आत्मीयसम्स्कारं विना हित्वैव धन सम्पादयितुं शक्यते। आध्यात्मिकं लौकिकं च न परस्परविरोधिनौ। अतः तयोः एकं सम्पादनार्थं अपरस्य त्याग: न आवश्यक:।

मातु: जन्मदिनसन्देश: – वर्ष: २०००

संप्रति बालानां बहुषु विषयेषु उत्तमं ज्ञानमस्ति। किन्तु आध्यात्मिकज्ञानं विना तेषां ज्ञानं आधारहीनं गृहमिव संजातम्। अद्य विद्यालया: विश्वविद्यालयाश्च रणांगणाः इव सन्ति। युद्धभूमौ इव कलहाः कोलाहलाश्च अद्य विद्यालयेष्वपि दृश्यन्ते, तस्य हेतुः राजनैतिकः अन्यो वा चेदपि।

माता राजनीतिम् लघूकृत्य न वदति| एकैकस्यापि निजं स्थानमस्ति। तस्मिन्नैव स्थाने तद् वर्तव्यम्। विद्यालयेषु विद्याभ्यासाय प्राथम्यं दत्वा छात्रैः तदर्थं प्रयत्नः करणीयः। अनेन सह संस्कारस्य पोषणमपि कर्तव्यम्। अद्य तावत् छात्राः येन केनापि प्रकारेण प्रमाणनिर्णयपत्रं प्राप्तुमेव तत्पराः, न तु विद्याभ्यासद्वारा संस्कारपोषणं साधयितुम्। अध्यापकाः अपि छात्रान्न् एतदर्थं उत्तेजयितुं न तत्पराः। किमर्थं विद्याभ्यास: इति प्रतिबोधः अपि इदानींतनछात्राणां नास्ति। अत: समीचीनं ज्ञानं सम्स्कारः वा तेषु न दृश्येते। विद्यालयेषु छात्राः अध्यापकैः सह विनयपूर्वं न व्यवहरन्ति। अत: तत्र अध्यापकाः यन्त्रवत्; छात्राः भित्तिवत् च सञ्जाताः। तत्र छात्राणां अध्यापकानां च हॄदयानि परस्परं न संवदन्ति। यः एकत्वभाव: छात्राणां आवश्यकः सः तेषु न प्रजायते। विद्यालयगमनस्य लक्ष्यं विस्मृत्य ते अन्यत्र परिभ्रमन्ति। अद्य विद्याभ्यास: तु युतकानुरूपं शरीरच्छेदनवत्, पादुकानुरूपं पादच्छेदनवच्च भवति। अद्य आप्तविद्याः जंगमसंगणकयन्त्रवत्, अलंकृतः कुणप इव च संवृत्ताः। ते हृदयशून्याः परिवृत्ताः। अद्य वयं केवलं कर्म कर्तुमेव जीवन्ति; न तु जीवनार्थं कर्म। जीवनं तु सर्वथा यान्त्रिकं संजातम्।

माता एकां कथां स्मरामि। एकदा कश्चित् पुरुषः स्वमित्रं दृष्टुं गतवान्। तदवसरे स्नेहितः जलनलिकाम् उपयुज्य उद्यानस्य सेचनं करोति स्म। सः जलनलिकां गृहीत्वा एकैकस्यापि वृक्षस्य समीपम् तिष्ठति स्म। किन्तु नालिकायाः जलं न निःसरति स्म। एतद् दृष्ट्वा अभ्यागतः मित्रं पृष्टवान्, “भवान् किं करोति? विना जलेन वृक्षानां सेचनं कथं भवति? जलनलिकायां रन्ध्र: अस्ति वा इति पश्यतु!” इति। एतद् श्रुत्वा मित्रं प्रत्यवदत्, “भवान् तान् वृक्षान् सम्यक् पश्यतु” इति। तदा एव स: अवगतवान् यत् तस्मिन् उद्याने सर्वे वृक्षाः कृतकाः इति। एवमेव अद्य अस्माकम् दशा। अस्माभिः सर्वैः कृतकानि उद्यानान्येव सृज्यन्ते। तेषु जीवस्पन्दनं, चेतनायाः सुगन्ध:,जीवस्पन्दनस्य सौन्दर्यं वा न विद्यन्ते। यन्त्राणां प्रयोग: आवश्यकः, किन्तु स्वजीवनं यान्त्रिकं न भवितव्यम्। अद्य अस्माकं हृदयानि भग्नानि सन्ति। वयं हृदयस्य भाषां विस्मृत्य केवलं यन्त्राणि इव विचरन्तः स्मः।

– मातु: जन्मदिनसन्देश: – वर्ष: २०००