पुत्रकाः, नवरात्रिर्नाम पराशक्तेः पूजनस्य पर्व भवति । या सा सर्वशक्ता, सृष्टेर्मूला च भवति पराशक्तिः ।

नवरात्रिः सत्सङ्कल्पानां, तपसः, पूजायाश्च शुभकालोऽस्ति । पूजायाः प्रकारः क्रमश्च प्रदेशानुगुणं भिद्येत । केषुचित् प्रदेशेषु नवदिनानि यावत् देव्याः नवरूपाणि क्रमादाराध्यन्ते । क्वचिदन्यत्र पर्वणः आदिमेषु त्रिषु दिनेषु कालिकात्वेन, ततः परं दिनत्रयं यावत् लक्ष्मीत्वेन, अन्तिमदिनत्रये सरस्वतीरूपेण इयं शक्तिः आराध्यते । क्वचिच्च केवलं नवरात्रेः अन्तिमं दिनत्रयं पर्वत्वेन आचर्यते ।

अतिनिद्रा, आलस्यं, लोभः, क्रोधः, अहङ्कारः, असूयादयः ऋणात्मकगुणाः अध्यात्ममार्गे अस्मान् रुन्धन्ति । तान् सर्वानपि ऋणात्मकगुणान् तपसा दृढसङ्कल्पेन च छित्वा अध्यात्मकोन्नतिः साध्या इत्ययं सन्देशः नवरात्रिपर्वणि व्यक्तो भवति । प्रार्थनया ध्यानेन च मानवः चित्तशुद्धिं, कल्याणं च समवाप्नोति । सङ्कल्पबलेनैव आत्मशक्तेः जागरणं, स्वात्मनिग्रहं च साधितुं पारयामः । पर्वान्ते विजयदशमीति दशमो दिवसः विजयस्य द्योतको भवति ।
दुर्गाष्टम्यां तन्नाम पर्वणः अष्टमे दिवसे अस्मत्पुस्तकानि, कर्मक्षेत्रसम्बद्धानि वस्तूनि, यन्त्राणि वा पूजनार्थः मातुः पुरतः स्थापयामः । यतो वयं सर्वे अस्मज्जीवनयापनार्थम् एषु वस्तुषु निर्भराः स्मः । कृष्यादिकर्मण्युपयुज्यमानानां वस्तूनां पूजनेन प्रत्येकमपि कर्म पूजात्वमेति । पूजासम्पूर्तेः परं तान्येव वस्तूनि प्रसादत्वेन स्वीकृत्य तान्युपयुज्य कर्मकुर्वाणो वयं जीवनस्य पुनरारम्भरूपसम्भ्रममाप्नुमः । विजयदशमी तु नूत्नस्य शुभारम्भस्य सुमुहूर्त इति मन्यते बुधैः । अत एव बालाः तस्मिन् दिने विद्यारम्भं कार्यन्ते । विद्यारम्भस्यादौ लिख्यमाने, “ॐ हरिः, श्री गणपतये नमः” इति वाक्ये आन्तं अक्षरसमाम्नायं अभिव्यङ्क्तः । मानवज्ञानस्य मूलमस्ति खलु अक्षरम्! वाग्देवी यस्य जिह्वाग्रे विलसति सः मूकोऽपि भवति वाग्ग्मी, निरक्षरोऽपि जायते पण्डितः । पारमार्थिकं सत्यमेकमेवास्ति यत् शुद्धा प्रज्ञा । सर्वमपि जगत् रुपान्तरम् अवस्थान्तरं वा प्राप्येत, अथापि जगन्मूलं यदक्षरं तन्न विपरिणमते । तामेव शक्तिं वयं देवीति मन्यामहे । सूर्यः अपि च तत्किरणाः, मधु अपि च तन्मधुरता, शब्दः तदर्थश्च यथा सर्वदा अभिन्नाः तद्वत् देवता तच्छक्तिश्च अभिन्ने एव ।

अस्मदिष्टां देवतामूर्तिं पूजयितुं वयं स्वतन्त्राः । मातेव, गुरुरिव, मित्रमिव, पितेव, प्रभुरिव अथवा अस्मत्पुत्र इव देवं भावयितुं वयं समर्थाः । परं तत्पूजनम् अध्यात्मविषयनिबद्धः स्यात् । मानवसम्बन्धेषु मातृ-पुत्र सम्बन्धः गरीयान् भवति । पुत्रस्य मात्रा सह गरिष्ठमस्ति स्वातन्त्र्यम् । रोदनेन वा सः मात्रा स्वेष्टं फलमाकलयति । माता क्वचित् स्वपुत्रं ताडयेन्नाम, अथापि पुत्रकं गृहीत्वा एव ताडयति सा न तु तं द्रावयति । भवतीं विना न मेऽस्ति अन्यशरणमिति भावो भवति पुत्रकस्य । लोकस्य सर्वस्या अपि समस्यायाः समाधानं मातुरुत्सङ्गे प्राप्नोति बालः । इयमेव दृष्टिः भगवद्विषयेऽपि अस्मासु स्यात् । मातुर्नाम सा भवति सहनशक्तेः पराकाष्ठा । अनेकधा कृतापराधमपि बालं सा सहते, क्षमते च माता । जगन्माता यास्ति सा सर्वस्यापि विषये इमावेम प्रीतिं विधत्ते ।

केचन प्रच्छन्ति यत् “ किमर्थं सा माता मायेत्यभिधीयते? माया नाम या बध्नाति, या मोहयति, या अस्मान् दुःखयति ननु?” इति । परन्तु इदं जगन्नाम देव्या एव व्यक्तं रूपम् । यतः सा सर्वान्तर्मयी, अत एव माया अपि सैव भवति । मायाविमोचनी अपि देवी एव । देवी एव विद्याविद्यास्वरूपा अस्ति । विद्या नयति सत्यं प्रत्यस्मान्, अविद्या नयत्यसत्यं प्रति । मन एव मायेति कथ्यते, सा काचिद्बाह्या शक्तिर्नास्ति । माया नाम मनसः मूलरूपमिव । मन एव कारणं बन्धमोक्षयोः ।

कदाचित् चोराणामेको गणः कस्यचिद्धनमपहृत्य, रज्वा तं बद्धवा, तमेकस्मिन् कूपे निक्षिप्य अहिनत् । स च साह्यार्थम् उच्चैः अक्रन्दत् । तत् श्रुत्वा केचन तदुद्धरणार्थं उपकूपम् अगुः । रज्जुमेकं कूपे प्रक्षिप्य तं मनुष्यम् अरक्षन् जनाः । अत्र हि पूर्वतनो रज्जुः तमबध्नात्, अपरश्च तमरक्षत् । इत्थं मन एव मनुष्यस्य बन्धनस्य मोक्षस्य च हेतुर्भवति । एकया एव कुञ्चिकया द्वारस्य पिधानम् उद्घाटनं वा साध्यम् ननु? कुञ्चिकायाः उपयोगः कस्यां दिशि क्रियते इत्येतदेव निर्धारयति यद्वारस्य पिधानं वा उद्घाटनं वा । मनोऽपि इत्थंरूपमेव । अस्मद्दुःखस्य प्रायशो हेतुर्भवति अतथाज्ञानम् । सायंकाले अस्तंयन्तं सूर्यं दृष्ट्वा शिशुः क्रन्दति, सूर्यो जलेषु निमग्नः इति भावयित्वा । सैव स्थितिरस्माकमपि ।

देवस्य सृष्टौ प्रत्येकस्यापि वस्तुनो भवति तत्तत्प्रामुख्यम् । नात्र किञ्चित् लघुः, न किञ्चित् गुरुर्वा । प्रत्येकमपि जीवं देववद्भावयित्वा सेवताम् । इयं समदृष्टिः अस्मासु अपेक्षिता ।अयमपि नवरात्रिपर्वणः सन्देशो विद्यते । जगतः पराशक्तिः सर्वानपि पोषयन्ती, प्रीणयन्ती च विद्यते मातृवत् ।
सम्यग् ज्ञानस्य आविष्कृतिः अस्मदन्तः एव भवेत् । शास्त्राणां ज्ञानम् अपि च तेषां स्वजीवने पालनमित्यंशः अस्मासु स्यात् सर्वदा । नवरात्र्युत्सवः मत्पुत्रकेषु सर्वेषु इदं ज्ञानं जागरयेत् । सा देवी सर्वानस्मान् आशीर्वदेत् ।

अनेकजनाः वदन्ति,ईश्वरः अस्मान् सॄष्टयितुम् एकमेव कारणं स्वातन्त्र्येण स्व इच्छानुसरणं जीवनार्थमेव, सुखानुभवार्थमेव एतद् शरीरं भगवता दत्तम् इति। एतद् सत्यमेव शरीरस्तावद् सुखादीनाम् अनुभवार्थमेव। मार्गाणां निर्माणोद्देशः तावद् तेषु यानचलनार्थमेव। किन्तु स्व इच्छानुसरणं, नियमान् लङ्खयित्वा यानं चालयति चेत् अत्याहितः सम्भवति। श्रद्धां विना स्व इच्छया चलति चेत् अत्याहितः सम्भवति। सर्वाण्यपि कार्याणि तद् तद् धर्मानुसरणमेव करणीयम्। सर्वेष्वपि कार्यॆषु तद् तद् धर्मानुसरणमेव कर्म कर्तव्यः। धर्मेण विना किमपि करोति चेत्; वाग्वा प्रवॄत्तिर्वा तत्र अस्माकं व्यक्तित्वस्य एव नाशः।

एकदा कश्चित् पुरुषः समुद्रतीरतः चलति स्म। तत्र मार्गमध्ये सः एकां काचकूपीं पश्यति। तस्य कूपेः अपावृणात् एकः भूतः प्रत्यक्षः अभूत्। भूतं दृष्ट्वा भीतं तं दृष्ट्वा भूतः उक्तवान् “मां दृष्ट्वा भयान्वितः मा भूः” इति, “अस्मिन् काचकूपे बन्धित: सन् मम बहूनि कालानि अतीतानि अद्य भवता अहं मोचितः अतः भवतः सहायकः एवाहम्। भवन्तं त्रीणि वराणि दास्यामि, पृच्छतु” इति। सः प्रथमवरं पृष्टवान् – ” माम् अस्य लोकस्य श्रेष्टधनिकः करोतु ” भूतः “भूम्” इति शब्दितवान् तदानीं तस्य पुरतः अनेककोटिरूप्यकाणि प्रत्यक्षोऽभूत्। “मह्यं अतिबृहत् प्रासादः रोचते” इति। भूतः “भूम्” इति शब्दितवान् तदानीं तद् पुरुषस्य पुरतः भ्रृहत् प्रासादः प्रत्यक्षो॓ऽभूत्। तृतीयवररूपेण “मां अस्य लोकस्य सर्वैरपि स्त्रीभिः मोहितः अति सुन्दरः करोतु” इति प्रार्थितवान्। “भूम्” इति भूतः तृतीयवारं शब्दितवान्। निमिषैणैकेन तस्य रूपं चाकलेह रूपेण परिवर्तितम्।

तदवसरे श्रद्धया स्व वाचः उचितः उपयोगः कर्तुं अशक्तः सः किमपि प्राप्तुं न शक्नुवान्, स्वस्य नाशः च सम्पादितवान्। अतः माता वदति अस्माकं वाक्प्रवृत्तीन् प्रति श्रद्धां न ददाति चेत् अस्माकं व्यक्तित्वस्य नाशः सम्भवति इति।

ईश्वरः अस्मान् वररूपेण दत्तं तद् अन्येषु न द्रष्टुं शक्नोति, तदेव विवेकबुद्धिः। एतद् विवेकबुद्धेः उत्तमप्रयोगः न करोति चेत् अस्माकं जीवितं व्यर्थः भवति। अतः अस्माकं कर्मणाम् उद्देशः तु एतद् विवेकबुद्धेः उद्धारः एव। विवेकसहितकर्मेणैव जीवितस्य शाश्वतविजयस्य सम्भवः।

ध्यानं सुवर्णवत् मूल्यवत् भवति इति माता सर्वदा अनुस्मारयामि। ध्यानं भौतिकैश्वर्याय मोक्षाय मनः शान्त्याय च उत्तम मार्गः भवति। नेत्रान् निमील्या कमपि आसने उपविशति चेत् तद् ध्यानं न भवति। अस्माकं प्रवृत्तयः वाक् एवं चिन्ता एतेषु  बोध: एव ध्यानम्। अतिह्रस्वजलबिन्दुवत् भवति चिन्ता। तच्च वाक् तथा प्रवृत्तिरूपेण च परिणम्या नदिवत् भवति। अतिसूक्ष्मचिन्ता प्रवृत्तिरूपेण परिणम्य नदिवत् प्रवहति। पुनः कार्याणि अस्माकम् इच्छानुसरणं न भवामः। नदीं, स्व आरम्भे एकः पाषाणेनापि तस्याः गतिं नियन्त्रयितुं प्रयासः नास्ति किन्तु नदॆः बृहत्वे तु तां नियन्त्रयितुं न शक्नोति। अतः वयं अस्माकं मनोव्यापारेषु श्रद्धां दातव्यम्। चिन्ता वाग्रूपेण वाक् प्रवृत्तिरूपेण च परिणमति, तदनन्तरं एतस्य गतेः नियन्त्रणं कष्टतमं भवति। अतः अस्माकं चिन्ता प्रवृत्त्यादिषु श्रद्धा आवश्यकी इति वदति। मुद्रायाः च्छिद्रे तु तस्मिन् उत्पद्यमानानि सर्वाणि वस्तूनि दोषसहितानि भवन्ति तद्वत् मनसः शुद्ध्यभावे तस्मात् उत्पद्यमानानि वाग्प्रवृत्त्यादयः अपि शुद्धो न भवति। अतः मनोनियन्त्रणं प्रथमतया आवश्यकम्। तदर्थं ध्यानमेव उत्तमः मार्गः। ध्यानेन वयम् अस्माकं हृदयान्तराळस्य शान्तिं सम्यक् अनुभवामः।

 

प्रायः अस्माकम् सर्वेषामपि प्रश्नानां हेतुः अस्माकं अहंभावः एव। किन्तु एषः अहंभावः केनापि ग्रहीतुं दातुं वा न शक्यते। अस्य नाशाय एक एव उपायः अस्ति, तत्तु विनयभावः। विनयभावेनैव अहंभावस्य निवारणं कर्तुं शक्यते। यदा कश्चित् “अहमेव यजमानः” इति वदति, तस्मिन् क्षणे एव सः अहंभावस्य दासत्वमाप्नोति। दैनंदिनजीविते संतोषं  अनुभोक्तुमपि अहम्भावः स्वार्थविचाराश्च नितरां विघ्नाः भवन्ति। अनेनैव कारणेन आत्मानं विस्मृत्य अन्यैः सह सप्रेमं व्यवहर्तुमपि वयं न शक्नुमः। सर्वं मया एव प्राप्तव्यं, अहमेव सर्वम् संगृह्णामि इति भावः एव अद्य सर्वत्र दृश्यते। एतद् भावस्य दूरीकरणं विना जीविते आनन्दं न कदापि अनुभवामः। दर्शनशक्तिरहितान् अन्धान् नेतुं शक्यते। नेत्ररहितानामपि तेषां हृदयानि प्रेमपूर्णानि स्युः। किन्तु य अहङ्काररूपिणा आन्ध्येन ग्रस्तः स तु नितरां अन्धः। अनेनान्धकारेण ग्रस्ता वयं जाग्रदवस्थायामपि सुषुप्ता इव वर्तामहे। यदा एनं अहङ्कारं तारयामः तदा वयं लोककल्याणार्थम् समर्पिता भविष्यामः। यदा वयं अन्येषु ईश्वरस्य सान्निद्ध्यं दृष्टुं शक्नुमः तदा अस्मासु विनयः स्वयमेव आविर्भविष्यति। अहङ्कारस्य निवारणार्थं विनयः अत्यावश्यकः। यस्तु आत्मानं सर्वेषां दासं मन्यते स एव प्रेममयलोकस्य प्रभुः, न तु अपर योऽत्मानं सर्वेषां प्रभुं मन्यते।

क्रोधस्तु अहङ्कारात् संजायते। क्रोधस्य स्वहृदय एव हठात् निरोधो न कर्तव्यः। क्रोधः बहिरपि न प्रदर्शनीयः। क्रोधः हृदये हठात् निरुद्धश्चेत् तद् दोषाय भवेत्। एषः क्रोधः अन्तः स्थित्वा तुषाग्निरिव अनुनिमिषं चित्तं दाहयति। ततः चित्तक्षोभोऽपि भवति। अपि च अन्तःस्थितः एषः क्रोधः अस्माकं सर्वेषु व्यवहारेषु प्रतिबिम्ब्यते । कोपः हृदि निरुद्धश्चेत् तेन वयं रोगातुराः भवामः। बहिः प्रदर्शितश्चेत् तदन्येषां दोषाय भवेत्। अत एव कोपः उभयतरतीक्ष्णः वारङ्गरहितश्च खड्ग इव भवति इत्युच्यते। क्रोधरूपी खड्गः तस्य प्रयोक्तारं लक्ष्यं च हनिष्यति। असिप्रहारेण शरीरे यो वृणः जायते स भेषजेन अचिरादेव शाम्यते। किन्तु क्रोधवशात् प्रयुक्तेन वाक् शल्येन यो वृणः मनसि जायते स तु कदापि न शाम्यते। अतः यदा क्रोधः संजायते तदा तस्य बहिः प्रकटनं, स्वात्मन्येव स्थापनम् वा न कर्तव्यम् किन्तु विवेकबुद्द्ध्या तस्य शमः करणीयः। क्रोधाधीनाः भूत्वा ये निर्णयाः वयं स्वीकुर्मः तेषां प्रयोगः झटित्या न करणीयः। यदा वयं क्रुद्धाः तदा स्वमनसि उत्पद्यमानाः विचारा तथैव वाचा न प्रकटनीयाः। क्रोधस्य शमनाय क्षमाविवेकौ एव भेषजे भवतः। क्रोधः अस्माकं दोष इति आदौ ज्ञातव्यम्। क्रुद्धः सन् कमपि उद्दिश्या पत्रं लिखति चेत् प्रेषणात् पूर्वं तद् बहुवारं पठनीयम्। एवं चेत् क्रोधवशात् लिखितानि कठोरपदानि वाक्यानि च वर्जयितुं शक्यते। अनन्तरं यदा वयं क्रोधान्मुक्ताः भवामः तदा विवेकपूर्वं पुनःचिन्तयामश्चेत् अस्माकं दोषं सम्यक् ज्ञातुम् शक्नुमः। तदा निर्मले दर्पणे दृश्यमान छाया इव अस्माकं मनोवृत्तय अपि सुस्पष्टं दृश्यन्ते। तथैव क्रोधस्य निस्सारता क्षमायाः महत्वं च सम्यग् बोद्धुं शक्नुमः।

यदि जनौघमध्ये स्थितस्य कस्यचन पुरुषस्य उपरि अकस्मात् केनापि प्रक्षिप्तः कश्चन शिलाखण्डः पतित्वा शरीरे व्रणः अपि अभवत् तर्हि  व्रणितस्य अङ्गस्य औषधोपचारः एव तेन प्रथमतया कर्तव्यः न तु केनायं पाषाणखण्डः प्रक्षिप्त इति अन्वेष्टुं प्रयत्नः। नो चेत् तस्मिन् उद्यमे व्रणं मलिनो भूत्वा तस्य शमने विलम्बो भविष्यति। कदाचित् शिलाखण्डस्य प्रक्षेप्तारम् अन्विष्य तस्य भर्त्सनानन्तरमेव स निर्दोषः, शिलाखण्डस्तु केनचिदपरेण प्रक्षिप्तः इति ज्ञायते अथवा कस्यापि हस्तात् अजानता शिलाखण्डः पतित इति। दोषी गृहीतः ताडितः चेदपि व्रणस्य पीडा औषधाभावे वर्धत एव। क्रोधस्तु मानसिकं व्रणमिव भवति। प्रथमतया तस्य शमः आवश्यकः। तदर्थं अस्माकं चित्तवृत्तीनां साक्षिवद् निरीक्षणं कर्तव्यम्। नो चेत् चित्तवृत्तयः वाग्रूपेण प्रवृत्तिरूपेण च परिणमन्ते। तत्तु अस्माकं क्लेशाय भविष्यति।

प्राणिनः सर्वे स्वातन्त्र्येण वर्तेयुः इत्युद्दिश्य एव ईश्वरः सर्वान् असृजत्, सुखाननुभोक्तुं तेषां शरीराणि भगवता दत्तम् इति च बहवः वदन्ति। एतद् सत्यमेव. शरीरस्तावद् सुखभोगार्थमेव। यानचलनार्थमेव मार्गा निर्मिता सन्ति। परन्तु यानचालननियमान् उल्लंघ्य यानं चालयति चेत् अपघातः भवेत्। अनवहितः सन् स्वेच्छया यानं चायलति चेत् तस्य दुष्परिणामः भवति। सर्वस्यापि कार्यस्य तत्तस्य धर्मः वर्तते। तदनुसृत्येव तत् करणीयम्। धर्मव्यतिरिक्ता वाक्, प्रवृत्तिश्च अस्माकं विनाशाय एव।

एकदा कश्चित् पुरुषः समुद्रतीरे अटति स्म। तत्र सिकतायां सः एकां काचकूपिकां अपश्यत्। यदा तेन सा कूपिका उद्घाटिता तदा ततः एकः भूतः बहिः आगतः। भूतं दृष्ट्वा सः पुरुषः भीत अभवत्। तद् दृष्ट्वा भूतः तं पुरुषं एवं उक्तवान् “मां दृष्ट्वा भीतो मा भूः। अहं दीर्घकालं अस्मिन् कूपिकायां बद्धः आसम्। अद्य भवता अहं मोचितः। अतः भवतः साहाय्यकः एवाहम्। भवन्तं त्रीणि वराणि दास्यामि, पृच्छतु” इति। सः प्रथमं वरं पृष्टवान् – “माम् अस्मिन् लोके महत्तमः धनिकः करोतु”। भूतः “भूम्” इति शब्दितवान्। तदानीं तत्र अनेककोटिरूप्यकाणां राशी आविरभूत्। “मह्यं अतिविशालं प्रासादमेकं यच्छतु” इति सः द्वितीयं वरं वृणीतवान्। भूतः “भूम्” इति शब्दितवान्। तदानीं तत्र अतिविशालः प्रासादः प्रत्यक्षो॓ऽभूत्। तृतीयवररूपेण “मां तथा करोतु येन लोके सर्वापि स्त्रियः मयि मुग्धा भवेयुः” इति प्रार्थितवान्। “भूम्” इति भूतः तृतीयवारं शब्दितवान्। निमिषैणैकेन सः पुरुषः चाकलेह रूपेण परिवर्तितोऽभवत्।

तस्मिन् अवसरे स्ववाचां उचितः उपयोगः कर्तुं अशक्तः इत्यतः सः किमपि प्राप्तवान्, तस्य सर्वमपि नष्टं चाभवत्। अतः माता वदति यदि अस्माकं प्रत्येका वाक् प्रवृत्तिश्च सावधाना न भवति चेत् अस्माकं सर्वनाशो भविष्यति इति।

या विवेकबुद्धिः ईश्वरेण अन्येभ्यः केभ्य अपि प्राणिभ्यः न दत्ता, सा मानवाय वररूपेण प्रदत्ता। सा विवेकबुद्धिः सम्यक् न प्रयुज्यते चेत् अस्माकं जीवितं व्यर्थः भविष्यति। अतः अस्माभिः विवेकबुद्धिः सततं जागरणीया। विवेकपूर्वककर्मेणैव जीवने शाश्वतविजयः प्राप्तुं शक्नुमः॥