अद्य सर्वे बालका: युवजनाश्च पाश्चात्यसम्स्कारमेव अनुकरोति। अनेकसद्गुणा: यदस्मदादिषु नास्ति तद् तेषु द्रष्टुं शक्यते किन्तु वयमस्माकं सम्स्कार: मूल्यान् च विस्मृत्या पाश्चात्यशैलीन् अनुकरोति। तच्च आकरदेन निर्मित आतावृक्षफलदम्शनवत् भवति, परमशिव: ब्रह्मवत् वेष: धारयति तद्वत् च। अनेन प्रकारेण अस्माकं यथार्थव्यक्तित्वस्य नष्टो भवति। तस्मात् वयम् अस्माकं मूलसम्स्कारं प्रति श्रद्धा अवश्यं भावनीया। एवं बालेषु कौमारादारभ्य सम्स्कारस्य दृढनार्थ्ं मातॄणां श्रद्धा आवश्यकमेव। अस्मिन् विषये काल: न अतीत:। वरीयजनै: अस्माकं सम्स्कार: किमिति ज्ञात्वा तद् युवजनेषु सम्यक् प्रचरणीयम्। अद्य सर्वे पितरौ स्व स्व पुत्रेषु भवान् पठित्वा वैद्य: भव इति उपदिशन्ति। एतद् उचितम् वा न वा इति माता न वदति। किन्तु अनेन सह मानुषिकमूल्यानाम् उद्धारणमार्ग: अपि दर्शनीय:। दृढीकरणलेपयुक्तप्रतलसदृशमेव बालानां मन:। तेषु रेखाङ्गिता: पादस्पर्शा: कदापि विनष्टो न भवति। तस्मात् कौमारादारभ्य बालेषु उत्तमसम्स्कारस्य विकसनार्थं परिश्रम: आवश्यक:। एतद् सम्स्कारमेव बालानां जीवितस्य आधार: अस्माकं पुत्रा: सर्वे उत्तमरीत्य पठित्वा धनसम्पादनं कृत्वा सुखेन जीवति इति द्र्ष्टुं वयं उत्सुका:। किन्तु आध्यात्मिकसम्स्कारेण विना, विद्या सम्पादनात् वा, समूहे उत्तमपदप्रापनात् वा, धनसम्पादनात् वा पितॄणां स्व समूहस्य च शान्ति: न सम्भवति। स्व पुत्राणां सम्स्कारशून्यजीवव्यवस्थां दृष्ट्वा अश्रुभरितान् माता जानाति। तस्मात् सर्वेषाम् आधार: भवति सम्स्कार:। एतदेव पितॄणां स्व पुत्रान् प्रति उपहार:। सम्स्कार: न केवलं विद्यालयात् वा पुस्तकात् वा आर्जयति। तदर्थं स्व जीवितं सम्स्कारसम्पन्नं भवितव्यम्। अस्माकं जीविते परिवर्तनं नास्ति चेत् अनंतरपरम्परासु परिवर्तनं न सम्भवति। अद्य वयं कनकं दत्वा कनकानुकरणं सम्पादयति। मातृभूमे: आत्मीयसम्स्कारनाशेन विना धनसम्पादनं कर्तुं शक्यते। आध्यामिकं भौतिकं च न परस्परविरुद्धम्। तस्मात् प्रथमस्य सम्पादनार्थं द्वितीयस्य त्याग: न आवश्यक:।

मातु: जन्मदिनसन्देश: – वर्ष: २०००

वयम् न द्वीपवत् पृथक् स्थिताः किन्तु एकस्यैव शृङ्खलायाः सन्धयः। अस्माकम् प्रत्येकम् कर्म स्पष्टतया अस्पष्टतया वा अन्यान् बाधते।अस्मिन् लोके यानि युद्धानि पूर्वम् अभूवन् तानि सर्वाण्यपि केषांचित् मनुष्याणां मनस्सु सञ्जातात् विद्वेषात् उद्भूतानि। एवम् एकस्य चिन्तया तस्य कर्मणा च अनेकानाम् नाशः अभूत्। हिट्लर् एकः व्यक्तिः आसीत्। परन्तु तस्य कर्मणा अनेकाः बाधिताः। आस्माकम् विचाराः अन्यान्, तथा एव अन्येषाम् विचाराः अस्मान् च बाधन्ते इति ज्ञात्वा मनसि सद्विचारान् एव धारयितुं वयं सावधाना भवेम। आदौ अपरस्य मानसिकपरिवर्तनम् भवेत्, तदनन्तरं अहमपि परिवर्तनार्थम् प्रयत्नं करिष्यामि इति कदापि न चिन्तनीयम्। अपरेषु अपरिवर्तितेष्वपि मम परिवर्तनम् निश्चयेन भवितव्यम् इति चिन्तयित्वा अस्माभिः परिश्रमः करणीयः। तदा एव यथार्थं परिवर्तनं संभवति। अयमेव अध्यात्मिकशास्त्रस्य उपदेशः।

अद्यतनस्तावत् त्यागस्य दिनः इति मात्रा आदौ उक्तम्। त्यागेनैव अस्माकम् संस्कारस्य उद्धारः सम्भवति। अयम् दिनः ऋषिभिः प्रदत्तस्य सम्स्कारस्य स्मरणार्थमेव न तु बाह्याघोषार्थं विलासार्थं वा। यदा वयं व्यष्टिबोधम् परित्यज्य सत्कर्मणि आनन्दं अनुभवामः तदा एव अस्माकं जीवितं उत्सवं भवति। उल्लासस्य संस्कृतेश्च मिलनं भवितव्यम्। तत एव जीवनं उत्सववत् परिणमति। संस्कारसहितः आघोषः शिशोः मन्दहासवत् निष्कलङ्को भवति। संस्काररहितः आघोषः तु अस्मान् पशुत्वं प्रति नयति।

अद्य लोके सर्वप्रकारेण धर्मस्य अपचयः एव सम्भवति इति वयम् सर्वे जानीमः। राजनैतिकक्षेत्रे, शैक्षणिकक्षेत्रे कुटुम्बे वा संस्कारस्य अपचयः एव। आध्यात्मिकां शक्तिं उपयुज्य एव संस्कारस्य उद्धारः कर्तुम् शक्यते। आध्यात्मिकं तादृशं शास्त्रम् अस्ति यद् अस्मज्जीवितान् शाक्तीकरोति। आध्यात्मविद्या तादॄशा कला अस्ति या अस्मज्जीवनस्य सौन्दर्यम् वर्धयति।

सद्गुरुमाता अमृतानन्दमयी देव्याः निर्देशानुसारं गत २००९ ओक्टोबर् मासे आश्रमे ब्रह्मचारिणां निमित्तं संस्कृताध्ययनार्धं वर्गः आरब्धः । २५० जनाः वर्गार्थम् आगताः । विश्वसंस्कृतप्रतिष्ठानस्य संस्कृतभारति कार्यकर्तारः र्वगं सञ्चालितवन्तः । प्रथमदशदिवसेषु सम्पाषण शिबिरम् अबवत् । अनन्तरं संस्कृतद्वारा-गीता-भगवद्गीता द्वारा संस्कृतम् इत्येषः पाठ्यक्रमं स्वीकृत्य अध्ययनम् आरब्धम् । इदानीं पञ्च घट्टात्मकस्य अस्य पाठ्यक्रमस्य द्वितीयं घट्टं समाप्तम् । एते वर्गाः प्रतिदिनं अनवरतं चलन्ति ।

२०१० जून् मासे ७-१६ पर्यन्तं आश्रमे पठितॄणां ब्रह्मचारिणां कृते शिक्षकप्रशिक्षणं प्रदत्तम् । येन सरलसंस्कृतस्य शिक्षणं ते अन्येभ्यः दातुं शक्नुयुः । तदनु आश्रमे अन्तेवासिनां, अन्येषां गृहस्थानां कृते संस्कृतवर्गाः आयोजिताः । तेषां कृते प्रशिक्षिताः शिबिराणि च चालितवन्तः । अद्य् विदेशियानां निमित्तं सप्ताहे दिनद्वयं, गृहस्धानां निमित्तं सप्ताहे दिनद्वयं, तथाच बृह्मचारिणां । बृह्मचारिणीनां निमित्तं प्रतिदिनं रात्रिकालेषु वर्गाः प्रचलन्ति ।

२३ आश्विनम् १९३२, अमृतपुरि

नवरात्र-उत्सवस्य अनुबन्धेन आश्रमे, संस्कृताध्येतॄणां, संस्कृतानुरागिणां च भारतीपूजा कार्यक्रम् आयोजिताः । तण्डुलचूर्णे रचिते भारतस्य चित्रे ५१ शक्तिपीठानां प्रतिनिधिस्वरूपेण अक्षराणि दीपाः च रचिताः । अक्षराणां देव्याः पूजां सर्वेपि दीपज्वालनेन पुष्पार्चनेन कृतवन्तः । प्रायः ४०० जनाः भागं स्वीकृतवन्तः । भारतीपूजायाः,सङ्कल्पः,सन्देशः इत्येषु विषयेषु अधिकृत्य विश्वसंस्कृतप्रतिष्ठनस्य पूर्णकालिका रूपेण वर्त्तितुं श्रीमती वन्दनानन्दकुमारस्य भाषणमभवत् । पूज्य स्वामि तुरीयामृतानन्द पुरि स्वामि पादाः भद्रदीपज्वालनेन कार्यक्रमस्य शुभारम्भं कृतवन्तः ।

भवन्तः सर्वे परितः निरीक्ष्य परितःस्थितिं निरूपयित्वा अद्यतनलोकस्य दशां अवबुध्यन्तु। एतद् दिनं तदर्थमेव। लोके जनाः केन प्रकारेण कष्टमनुभवन्ति, तेषां जीवनं कथम् भवति इति च अस्माभिः ज्ञातव्यम्।

गतवर्षे घटितं वृत्तान्तमेकं इदानीं स्मरामि। मुम्बैनिवासिभ्यः पुत्रेभ्यः एतत् श्रुतं मया। मुम्बैनगरे कश्चन व्यक्तिः प्रमेहरोगेण६३. नितरां पीडितः आसीत्। तस्य पादे एकः क्षतः अभवत् तत् दुष्टं भूत्वा व्रणं च अभवत्। वैद्येन उक्तम्- ‘भवतः पादस्य छेदनं करणीयम् अन्यथा एषः पूयः जंघायामपि व्याप्नोति’ इति। सः अत्यन्तं दुःखितः अभवत्। न तु केवलम् पादनष्टनिमित्तं दुःखं किन्तु पादच्छेदनार्थम् दशसहस्ररूप्यकाणि च आवश्यकानि। स्थायीरुपेण तस्य धनागमः न कोऽपि आसीत्। यत् वित्तं येनकेनापि उपायेन आर्जितम् तद् गृहकार्यार्थमपि न पर्याप्तम्। रोगबाधानन्तरम् स्वकृत्यनिर्वहणार्थमपि स न गच्छति। वैद्येनोपदिष्टं औषधं ग्रहीतुमपि निर्धनस्य तस्य वैष्यम्यम्। एतस्मिन् अवस्थायाम् सः पादच्छेदनार्थम् कथम् वित्तमार्जयति? एकस्मिन् दिने अतिविषण्णः सन् सः रेलयानस्य मार्गे स्वपादम् स्थापितवान्। रेलयानस्य तस्य पादच्छेदः अभवत् किन्तु रुधिरप्रवाहेण सः मृतप्रायः अभवत्। तत्र सम्मिलितैः जनैः सः आतुरशालाम् प्रवेशितः। किमर्थं एवं व्यवहृतवान् इति तैः पृष्टे सति सः अवदत् – “पादच्छेदनार्थम् मम धनम् नास्ति। छेदनम् विना जीवितुम् न शक्नोमि। छेदनार्थम् निर्धनस्य मम अन्यत् किमपि मार्गं नासीत्। तस्मात् मया एवम् कृतम्।”

सर्वे तस्य जीवितम् पश्यन्तु। इदानीम् अस्माकम् आतुरालयः अस्ति। यद्यपि सर्वेषाम् मूल्यरहितचिकित्सा तत्र न सम्भवति तथापि अनेकानां निर्धनानां विनामूल्यं शल्यचिकित्सा तत्र प्रचलति। किञ्च, आतुरालयात् गत्वा पुनः यानि औषधानि अवश्यम्ग्रहणीयानि तदर्थं धनमपि तेषां निर्धनानां हस्ते नास्ति। पुनः वैद्येन शल्यचिकित्सानन्तरं ‘कानिचन दिनानि विश्रमः करणीयः’ इति उपदिष्टमित्यतः ते स्व कर्मकरणार्थम् गन्तुमपि न शक्नुवन्ति। एवम् सर्वे गृहजनाः अपि क्षुदार्ताः सन्तः शयन्ति।

परितः पश्याम: चेत् एतादृशान् अनेकान् जनान् द्रष्टुम् शक्नुमः। सुखभोगार्थं विलासार्थं वा वयं भुरि धनं व्ययः कुर्मः। तद् निर्धननाम् औषधार्थम् वा भोजनार्थम् वा साधुबालकानाम् शोभनभाविम् उद्दिश्य तेषाम् अध्ययनार्थम् वा उपयोक्तव्यम्। परस्परस्नेहस्य सेवनस्य च एषः मनोभावः एव अस्माभिः आध्यात्मिकमार्गे स्वीकरणीयः|