पुत्रकाः, नवरात्रिर्नाम पराशक्तेः पूजनस्य पर्व भवति । या सा सर्वशक्ता, सृष्टेर्मूला च भवति पराशक्तिः ।

नवरात्रिः सत्सङ्कल्पानां, तपसः, पूजायाश्च शुभकालोऽस्ति । पूजायाः प्रकारः क्रमश्च प्रदेशानुगुणं भिद्येत । केषुचित् प्रदेशेषु नवदिनानि यावत् देव्याः नवरूपाणि क्रमादाराध्यन्ते । क्वचिदन्यत्र पर्वणः आदिमेषु त्रिषु दिनेषु कालिकात्वेन, ततः परं दिनत्रयं यावत् लक्ष्मीत्वेन, अन्तिमदिनत्रये सरस्वतीरूपेण इयं शक्तिः आराध्यते । क्वचिच्च केवलं नवरात्रेः अन्तिमं दिनत्रयं पर्वत्वेन आचर्यते ।
अतिनिद्रा, आलस्यं, लोभः, क्रोधः, अहङ्कारः, असूयादयः ऋणात्मकगुणाः अध्यात्ममार्गे अस्मान् रुन्धन्ति । तान् सर्वानपि ऋणात्मकगुणान् तपसा दृढसङ्कल्पेन च छित्वा अध्यात्मकोन्नतिः साध्या इत्ययं सन्देशः नवरात्रिपर्वणि व्यक्तो भवति । प्रार्थनया ध्यानेन च मानवः चित्तशुद्धिं, कल्याणं च समवाप्नोति । सङ्कल्पबलेनैव आत्मशक्तेः जागरणं, स्वात्मनिग्रहं च साधितुं पारयामः । पर्वान्ते विजयदशमीति दशमो दिवसः विजयस्य द्योतको भवति ।
दुर्गाष्टम्यां तन्नाम पर्वणः अष्टमे दिवसे अस्मत्पुस्तकानि, कर्मक्षेत्रसम्बद्धानि वस्तूनि, यन्त्राणि वा पूजनार्थः मातुः पुरतः स्थापयामः । यतो वयं सर्वे अस्मज्जीवनयापनार्थम् एषु वस्तुषु निर्भराः स्मः । कृष्यादिकर्मण्युपयुज्यमानानां वस्तूनां पूजनेन प्रत्येकमपि कर्म पूजात्वमेति । पूजासम्पूर्तेः परं तान्येव वस्तूनि प्रसादत्वेन स्वीकृत्य तान्युपयुज्य कर्मकुर्वाणो वयं जीवनस्य पुनरारम्भरूपसम्भ्रममाप्नुमः । विजयदशमी तु नूत्नस्य शुभारम्भस्य सुमुहूर्त इति मन्यते बुधैः । अत एव बालाः तस्मिन् दिने विद्यारम्भं कार्यन्ते । विद्यारम्भस्यादौ लिख्यमाने, “ॐ हरिः, श्री गणपतये नमः” इति वाक्ये आन्तं अक्षरसमाम्नायं अभिव्यङ्क्तः । मानवज्ञानस्य मूलमस्ति खलु अक्षरम्! वाग्देवी यस्य जिह्वाग्रे विलसति सः मूकोऽपि भवति वाग्ग्मी, निरक्षरोऽपि जायते पण्डितः । पारमार्थिकं सत्यमेकमेवास्ति यत् शुद्धा प्रज्ञा । सर्वमपि जगत् रुपान्तरम् अवस्थान्तरं वा प्राप्येत, अथापि जगन्मूलं यदक्षरं तन्न विपरिणमते । तामेव शक्तिं वयं देवीति मन्यामहे । सूर्यः अपि च तत्किरणाः, मधु अपि च तन्मधुरता, शब्दः तदर्थश्च यथा सर्वदा अभिन्नाः तद्वत् देवता तच्छक्तिश्च अभिन्ने एव ।
अस्मदिष्टां देवतामूर्तिं पूजयितुं वयं स्वतन्त्राः । मातेव, गुरुरिव, मित्रमिव, पितेव, प्रभुरिव अथवा अस्मत्पुत्र इव देवं भावयितुं वयं समर्थाः । परं तत्पूजनम् अध्यात्मविषयनिबद्धः स्यात् । मानवसम्बन्धेषु मातृ-पुत्र सम्बन्धः गरीयान् भवति । पुत्रस्य मात्रा सह गरिष्ठमस्ति स्वातन्त्र्यम् । रोदनेन वा सः मात्रा स्वेष्टं फलमाकलयति । माता क्वचित् स्वपुत्रं ताडयेन्नाम, अथापि पुत्रकं गृहीत्वा एव ताडयति सा न तु तं द्रावयति । भवतीं विना न मेऽस्ति अन्यशरणमिति भावो भवति पुत्रकस्य । लोकस्य सर्वस्या अपि समस्यायाः समाधानं मातुरुत्सङ्गे प्राप्नोति बालः । इयमेव दृष्टिः भगवद्विषयेऽपि अस्मासु स्यात् । मातुर्नाम सा भवति सहनशक्तेः पराकाष्ठा । अनेकधा कृतापराधमपि बालं सा सहते, क्षमते च माता । जगन्माता यास्ति सा सर्वस्यापि विषये इमावेम प्रीतिं विधत्ते ।
केचन प्रच्छन्ति यत् “ किमर्थं सा माता मायेत्यभिधीयते? माया नाम या बध्नाति, या मोहयति, या अस्मान् दुःखयति ननु?” इति । परन्तु इदं जगन्नाम देव्या एव व्यक्तं रूपम् । यतः सा सर्वान्तर्मयी, अत एव माया अपि सैव भवति । मायाविमोचनी अपि देवी एव । देवी एव विद्याविद्यास्वरूपा अस्ति । विद्या नयति सत्यं प्रत्यस्मान्, अविद्या नयत्यसत्यं प्रति । मन एव मायेति कथ्यते, सा काचिद्बाह्या शक्तिर्नास्ति । माया नाम मनसः मूलरूपमिव । मन एव कारणं बन्धमोक्षयोः ।

कदाचित् चोराणामेको गणः कस्यचिद्धनमपहृत्य, रज्वा तं बद्धवा, तमेकस्मिन् कूपे निक्षिप्य अहिनत् । स च साह्यार्थम् उच्चैः अक्रन्दत् । तत् श्रुत्वा केचन तदुद्धरणार्थं उपकूपम् अगुः । रज्जुमेकं कूपे प्रक्षिप्य तं मनुष्यम् अरक्षन् जनाः । अत्र हि पूर्वतनो रज्जुः तमबध्नात्, अपरश्च तमरक्षत् । इत्थं मन एव मनुष्यस्य बन्धनस्य मोक्षस्य च हेतुर्भवति । एकया एव कुञ्चिकया द्वारस्य पिधानम् उद्घाटनं वा साध्यम् ननु? कुञ्चिकायाः उपयोगः कस्यां दिशि क्रियते इत्येतदेव निर्धारयति यद्वारस्य पिधानं वा उद्घाटनं वा । मनोऽपि इत्थंरूपमेव । अस्मद्दुःखस्य प्रायशो हेतुर्भवति अतथाज्ञानम् । सायंकाले अस्तंयन्तं सूर्यं दृष्ट्वा शिशुः क्रन्दति, सूर्यो जलेषु निमग्नः इति भावयित्वा । सैव स्थितिरस्माकमपि ।
देवस्य सृष्टौ प्रत्येकस्यापि वस्तुनो भवति तत्तत्प्रामुख्यम् । नात्र किञ्चित् लघुः, न किञ्चित् गुरुर्वा । प्रत्येकमपि जीवं देववद्भावयित्वा सेवताम् । इयं समदृष्टिः अस्मासु अपेक्षिता ।अयमपि नवरात्रिपर्वणः सन्देशो विद्यते । जगतः पराशक्तिः सर्वानपि पोषयन्ती, प्रीणयन्ती च विद्यते मातृवत् ।
सम्यग् ज्ञानस्य आविष्कृतिः अस्मदन्तः एव भवेत् । शास्त्राणां ज्ञानम् अपि च तेषां स्वजीवने पालनमित्यंशः अस्मासु स्यात् सर्वदा । नवरात्र्युत्सवः मत्पुत्रकेषु सर्वेषु इदं ज्ञानं जागरयेत् । सा देवी सर्वानस्मान् आशीर्वदेत् ।


ध्यानं सुवर्णवत् मूल्यवत् भवति इति माता सर्वदा अनुस्मारयामि। ध्यानं भौतिकैश्वर्याय मोक्षाय मनः शान्त्याय च उत्तम मार्गः भवति। नेत्रान् निमील्या कमपि आसने उपविशति चेत् तद् ध्यानं न भवति। अस्माकं प्रवृत्तयः वाक् एवं चिन्ता एतेषु बोध: एव ध्यानम्। अतिह्रस्वजलबिन्दुवत् भवति चिन्ता। तच्च वाक् तथा प्रवृत्तिरूपेण च परिणम्या नदिवत् भवति। अतिसूक्ष्मचिन्ता प्रवृत्तिरूपेण परिणम्य नदिवत् प्रवहति। पुनः कार्याणि अस्माकम् इच्छानुसरणं न भवामः। नदीं, स्व आरम्भे एकः पाषाणेनापि तस्याः गतिं नियन्त्रयितुं प्रयासः नास्ति किन्तु नदॆः बृहत्वे तु तां नियन्त्रयितुं न शक्नोति। अतः वयं अस्माकं मनोव्यापारेषु श्रद्धां दातव्यम्। चिन्ता वाग्रूपेण वाक् प्रवृत्तिरूपेण च परिणमति, तदनन्तरं एतस्य गतेः नियन्त्रणं कष्टतमं भवति। अतः अस्माकं चिन्ता प्रवृत्त्यादिषु श्रद्धा आवश्यकी इति वदति। मुद्रायाः च्छिद्रे तु तस्मिन् उत्पद्यमानानि सर्वाणि वस्तूनि दोषसहितानि भवन्ति तद्वत् मनसः शुद्ध्यभावे तस्मात् उत्पद्यमानानि वाग्प्रवृत्त्यादयः अपि शुद्धो न भवति। अतः मनोनियन्त्रणं प्रथमतया आवश्यकम्। तदर्थं ध्यानमेव उत्तमः मार्गः। ध्यानेन वयम् अस्माकं हृदयान्तराळस्य शान्तिं सम्यक् अनुभवामः।

