Category / मातुः संदेशः

वयम् न द्वीपवत् पृथक् स्थिताः किन्तु एकस्यैव शृङ्खलायाः सन्धयः। अस्माकम् प्रत्येकम् कर्म स्पष्टतया अस्पष्टतया वा अन्यान् बाधते।अस्मिन् लोके यानि युद्धानि पूर्वम् अभूवन् तानि सर्वाण्यपि केषांचित् मनुष्याणां मनस्सु सञ्जातात् विद्वेषात् उद्भूतानि। एवम् एकस्य चिन्तया तस्य कर्मणा च अनेकानाम् नाशः अभूत्। हिट्लर् एकः व्यक्तिः आसीत्। परन्तु तस्य कर्मणा अनेकाः बाधिताः। आस्माकम् विचाराः अन्यान्, तथा एव अन्येषाम् विचाराः […]

भवन्तः सर्वे परितः निरीक्ष्य परितःस्थितिं निरूपयित्वा अद्यतनलोकस्य दशां अवबुध्यन्तु। एतद् दिनं तदर्थमेव। लोके जनाः केन प्रकारेण कष्टमनुभवन्ति, तेषां जीवनं कथम् भवति इति च अस्माभिः ज्ञातव्यम्। गतवर्षे घटितं वृत्तान्तमेकं इदानीं स्मरामि। मुम्बैनिवासिभ्यः पुत्रेभ्यः एतत् श्रुतं मया। मुम्बैनगरे कश्चन व्यक्तिः प्रमेहरोगेण६३. नितरां पीडितः आसीत्। तस्य पादे एकः क्षतः अभवत् तत् दुष्टं भूत्वा व्रणं च अभवत्। वैद्येन उक्तम्- […]