पुत्रकाः, नवरात्रिर्नाम पराशक्तेः पूजनस्य पर्व भवति । या सा सर्वशक्ता, सृष्टेर्मूला च भवति पराशक्तिः । नवरात्रिः सत्सङ्कल्पानां, तपसः, पूजायाश्च शुभकालोऽस्ति । पूजायाः प्रकारः क्रमश्च प्रदेशानुगुणं भिद्येत । केषुचित् प्रदेशेषु नवदिनानि यावत् देव्याः नवरूपाणि क्रमादाराध्यन्ते । क्वचिदन्यत्र पर्वणः आदिमेषु त्रिषु दिनेषु कालिकात्वेन, ततः परं दिनत्रयं यावत् लक्ष्मीत्वेन, अन्तिमदिनत्रये सरस्वतीरूपेण इयं शक्तिः आराध्यते । क्वचिच्च केवलं नवरात्रेः […]