२३ आश्विनम् १९३२, अमृतपुरि नवरात्र-उत्सवस्य अनुबन्धेन आश्रमे, संस्कृताध्येतॄणां, संस्कृतानुरागिणां च भारतीपूजा कार्यक्रम् आयोजिताः । तण्डुलचूर्णे रचिते भारतस्य चित्रे ५१ शक्तिपीठानां प्रतिनिधिस्वरूपेण अक्षराणि दीपाः च रचिताः । अक्षराणां देव्याः पूजां सर्वेपि दीपज्वालनेन पुष्पार्चनेन कृतवन्तः । प्रायः ४०० जनाः भागं स्वीकृतवन्तः । भारतीपूजायाः,सङ्कल्पः,सन्देशः इत्येषु विषयेषु अधिकृत्य विश्वसंस्कृतप्रतिष्ठनस्य पूर्णकालिका रूपेण वर्त्तितुं श्रीमती वन्दनानन्दकुमारस्य भाषणमभवत् । पूज्य स्वामि तुरीयामृतानन्द […]