अस्मासु ज्ञानमस्ति किन्तु बोध: नास्ति। अत: अस्माकं जन्मोद्देशः सफलो न भवति। वयं विषयमेकं चिन्तयामः, किंचिदन्यत् वक्तुम् आरभ्य़ामहे पुनः अन्यत् किमपि वदामः अनन्तरं विपरीतं किमपि प्रवर्तयामः। वयं सर्वे अर्थसुषुप्तौ जीवामः। इदानीमपि अस्माकं स्मरणा, प्रवृत्त्यादिषु सम्यक् बोध: स्वीकर्त्तुं न शक्नुवन्तः।

आस्मिन् विषये एकां कथां स्मरामि। एकदा पिता स्व पुत्रम् स्वापात् प्रबोधनार्थम् उक्तवान् – “अरे उत्तिष्ठतु पुत्र, विद्यालयगमनार्थं समय: आगतः” इति। पुत्र: तु तत्र कारणत्रयं विशदीकरोति। प्रथमस्तावत् गमनार्थम् न इच्छामि इति। विद्यालयगमनं तु मह्यं न रोचते। तदानीं तस्य पिता पृष्ट्वान् तत्र कारणं किमिति? पुत्रः उक्तवान्, विद्यालये सर्वे छात्राः मां परिहसन्ति इति। तदानीं तस्य पिता प्रतिवदति, “मयि तव विद्यालयगमनार्थंमपि कारणत्रयमस्ति” इति। पुत्रः उक्तवान् वदतु इति। पिता विशदीकरोति, विद्यालयगमनं तव धर्मः एव, द्वितीयस्तु भवतः आयुः पञ्चाशत् सम्प्राप्तम्, तृतीयस्तु भवान् एव विद्यालयस्य प्रथमाध्यापकः इति। पञ्चाशत् वर्षीयः सः विद्यालयस्य प्रथमाध्यापकः भवति किन्तु स्व आलस्येन विद्यालयम् न गच्छति एतादृशमेव अस्मदादीनामपि अवस्था। सुषुप्तौ एव जीवन्ति। स्व वाक् प्रवृत्त्यादिषु बोधः नास्ति। अतः अस्माभिः स्व स्व आत्मावबोधार्थं प्रयत्नः करणीयः। आत्मावबोधनात् अस्माकं विकासः सम्भवति। तदानीमेव ज्ञानेन सह बोधस्यापि उद्धारणं सम्भवति। धूम्रपानात् अर्बुदं सम्भवति इति तमाखुनालपोटलिकासु लिखितमेव। ये जनाः धूम्रपानं कुर्वन्ति तेषु एतद् ज्ञानं सन्ति च, किन्तु ते तमाखुनालस्य उपयोगं कुर्वन्ति। अर्बुदरोगप्राप्त्यनन्तरं तेषु बोधः संभवन्ति। बोधानन्तरं धूम्रपानवर्जनार्थं प्रयत्नं कुर्वन्ति। एवं तत्र धूम्रपानार्थम् इच्छा सन्ति चेदपि तद् न कुर्वन्ति। तत्र मरणभयादेव धूम्रपानरूपशीलस्य त्यागं क्रृतवन्तः। अतः माता वदति, बोधराहित्यादेव वयं सर्वे अधर्ममाचरामः।
एकदा गुरुं प्राप्या एकः उक्तवान्, “हे गुरो! मम उपजीवनमार्गः चौर्यः। एवम् अपहृतवस्तुनः सहायेनैव मम जीवनम्। मम एतस्मात् अधर्मात् मोचनाय इच्छा अस्ति। तदर्थम् भवत: अनुग्रहम् इच्छामि इति।” गुरु: उक्तवान्, “भवान् चौर्यं निवर्तयितुं न शक्नोति चेत् चौर्यानन्तरं तद् वृत्तान्दं स्वामिनम् वदतु। अन्यथा चोरकर्मवृत्तान्दकथनानन्तरं स्व कर्म कुरु इति।”
सः चोरः गुरुं प्रणम्य गतवान्। एकदा सः चौर्यार्थम् एकं गृहं प्रविष्टवान्। लखुकोष्ठतः मालां गृहीतुम् उद्युक्तः सः गुरोः वचनं स्मृतवान्। “सः चिन्तितवान् यदि अहं एतद् मालां स्वीकृत्या पुनः स्वामिनं वदति चेत् सः मां नगरपालकान् प्रति प्रेषयति। अनन्तरम् ते जनाः मां पीडयन्ति पुनः कारागृहवासः अनुभवनीयं च।” एवं स्मरणानन्तरमपि माला चोरणार्थं पुनरपि परिश्रमः कृतवान् किन्तु अशक्तः सन् प्रत्यागतवान्। आगामि दिनेष्वपि चौर्यं कर्तुं अशक्त: सः स्व गुरुं प्राप्य उक्तवान् ” भवतः उपदेशः मूढत्वमेव। भवता उक्तं चौर्यात् पूर्वं वा चौर्यानन्तरं वा मया स्वामिः बोधितव्यः इति, एवं चेत् केन चौर्यं कर्तुं शक्यते?”
गुरुः प्रत्यवदत्, “भवन्तं चौर्यकर्मात् निवर्तयितुम् एवम् उपदिष्ठवान्। मम उपदेशस्मरणानन्तरं तस्मिन् समये भवतः मनसि उत्तमबोधः आविर्भूतः। भवतः कर्मणः फलं किमिति बोधः उदितः। एतद् चिन्ता भवन्तं अधर्माचरणात् रक्षितम्।” अस्माकं कर्मणां फलं किमिति उत्तमबोधः अस्ति चेत् अधर्मं कर्तुम् केनापि न शक्नुवन्ति। वयं एतदवबोधराहित्यादेव अधर्ममाचरामः। अस्माकं जीवितस्तु पूर्णस्वातन्त्र्येण उत्साहेन च भवितव्यम्। जीवितः उत्सवः भवितव्यः। किन्तु इदानीम् एवं सम्भवति वा? स्व जीवितविषयं कमपि पृच्छति चेत् सर्वेपि दुःखकथाम् एव श्रावयति। अत्र दुःखस्य कारणं किम्? ममता एव अत्र कारणम्। अनेन किमपि फलमस्ति वा? किमपि लाभः अस्ति वा? अत्र उपविश्य बन्धुमित्रादीनां विचारः करोति चेत् न तु अस्माकं किमपि प्रयोजनं नापि तेषाम्। केवलं समयस्य नष्ट:।

वस्तुतः सर्वे तु एकाकिनाः। सर्वेपि जनाः सङ्खॆ तद्वत् एकान्ते च एकाकिनाः। तथापि वयम् अन्यान् आश्रयामः। अन्यस्य मन्दहासे एव अस्माकं जीवनम्। अन्यस्य द्वेषे एव अस्माकं जीवनम्। एकः व्यक्तिः अस्मान् दृष्ट्वा हसति चेत् अस्माकं सन्तोषः, द्विषति चेत् अस्माकं द्वेषः। किञ्च तत्र आत्माहूतिरपि कुर्मः। तं मारयितुं च इच्छामः। एवं स्व रूपं त्यक्त्वा अन्यत् स्वीकुर्मः। निमिषमेकमपि वयं स्व आत्मनि न तिष्ठामः। तस्मात् स्व कर्मणि बोद्धः आवश्यकः। तत्र जाग्रदा च। तत्र उत्तमः मार्गः एव ध्यानम्।





अद्य सर्वे बालका: युवजनाश्च पाश्चात्यसम्स्कारमेव अनुकरोति। अनेकसद्गुणा: यदस्मदादिषु नास्ति तद् तेषु द्रष्टुं शक्यते किन्तु वयमस्माकं सम्स्कार: मूल्यान् च विस्मृत्या पाश्चात्यशैलीन् अनुकरोति। तच्च आकरदेन निर्मित आतावृक्षफलदम्शनवत् भवति, परमशिव: ब्रह्मवत् वेष: धारयति तद्वत् च। अनेन प्रकारेण अस्माकं यथार्थव्यक्तित्वस्य नष्टो भवति। तस्मात् वयम् अस्माकं मूलसम्स्कारं प्रति श्रद्धा अवश्यं भावनीया। एवं बालेषु कौमारादारभ्य सम्स्कारस्य दृढनार्थ्ं मातॄणां श्रद्धा आवश्यकमेव। अस्मिन् विषये काल: न अतीत:। वरीयजनै: अस्माकं सम्स्कार: किमिति ज्ञात्वा तद् युवजनेषु सम्यक् प्रचरणीयम्। अद्य सर्वे पितरौ स्व स्व पुत्रेषु भवान् पठित्वा वैद्य: भव इति उपदिशन्ति। एतद् उचितम् वा न वा इति माता न वदति। किन्तु अनेन सह मानुषिकमूल्यानाम् उद्धारणमार्ग: अपि दर्शनीय:। दृढीकरणलेपयुक्तप्रतलसदृशमेव बालानां मन:। तेषु रेखाङ्गिता: पादस्पर्शा: कदापि विनष्टो न भवति। तस्मात् कौमारादारभ्य बालेषु उत्तमसम्स्कारस्य विकसनार्थं परिश्रम: आवश्यक:। एतद् सम्स्कारमेव बालानां जीवितस्य आधार: अस्माकं पुत्रा: सर्वे उत्तमरीत्य पठित्वा धनसम्पादनं कृत्वा सुखेन जीवति इति द्र्ष्टुं वयं उत्सुका:। किन्तु आध्यात्मिकसम्स्कारेण विना, विद्या सम्पादनात् वा, समूहे उत्तमपदप्रापनात् वा, धनसम्पादनात् वा पितॄणां स्व समूहस्य च शान्ति: न सम्भवति। स्व पुत्राणां सम्स्कारशून्यजीवव्यवस्थां दृष्ट्वा अश्रुभरितान् माता जानाति। तस्मात् सर्वेषाम् आधार: भवति सम्स्कार:। एतदेव पितॄणां स्व पुत्रान् प्रति उपहार:। सम्स्कार: न केवलं विद्यालयात् वा पुस्तकात् वा आर्जयति। तदर्थं स्व जीवितं सम्स्कारसम्पन्नं भवितव्यम्। अस्माकं जीविते परिवर्तनं नास्ति चेत् अनंतरपरम्परासु परिवर्तनं न सम्भवति। अद्य वयं कनकं दत्वा कनकानुकरणं सम्पादयति। मातृभूमे: आत्मीयसम्स्कारनाशेन विना धनसम्पादनं कर्तुं शक्यते। आध्यामिकं भौतिकं च न परस्परविरुद्धम्। तस्मात् प्रथमस्य सम्पादनार्थं द्वितीयस्य त्याग: न आवश्यक:।