गुरुः सर्वदा शिष्यस्य शिष्यायाः संस्कारानुगुणमेव उपदिशति उपदेशम्। एकस्मिन्नेव विषये गुरुः भिन्नेभ्यः शिष्येभ्यः भिन्नमेवोपदेशं दद्यात्। अन्यस्मै दत्तः गुरूपदेशः मया किमर्थं न प्राप्तः गुरुमुखादिति इति चिन्तनं कस्मैचिदपि शिष्याय न शोभते। गुरुरेव विजानाति कस्य कीदृशः उपदेशः देय इति। अत एव स्वोद्देश्यसाधनाय गुरुपदेशशरणागतिरेव शिष्याय उत्तमो मार्गः इति लोके कथ्यते।

कस्मिंश्चिदाश्रमे द्वे व्यक्ती कार्यं कुर्वत्यौ आस्ताम्। तयोरेकः जनः धूमपानं कर्तुं उदयुङ्क्त। तद्दृष्ट्वा अन्यः अवदत् “नात्र धूम्रपानं युज्यते, हेयमेतत्” इति। अन्यः प्रत्यवदत् “धूमपानेन हानिर्नास्ति काचिदपि, क्रीडनसमयेऽपि कश्चित् धूमपानं कर्तुमर्हति” इति।

“तर्हि एतद्विषये गुरुमेव प्रच्छावः” इति तदन्यः गुरुं प्रति अगमत्। गुरोः प्रत्यागत्य सः स्वमित्रमवदत् “नेदं केवलं हेयम्, किन्तु पूजनवेलायां धूमपानं पापाय अपि”। तर्हि अहमेव गुरुं गत्वा प्रक्ष्यामीति वदन् अन्यः प्रातिष्टत। गुरुसमीपं गत्वा पुनर्धूमपानं कुर्वन्नागतं तं दृष्ट्वा प्रथमः पुनरप्राक्षीत् “किं भोः, किमिदं कुरुषे, धूमपानं न कर्तव्यमिति गुरुभिरुक्तं ननु?” इति। तदानीं सः प्रत्यवादीत् “गुरवः धूमपानाय मे अनुमतिम् अयच्छन्” इति। “तर्हि भवता वस्तुतः किं पृष्टम् ?” आदिमः आश्चर्येण पुनः अपृच्छत्। तदा सः वदति “मया इदमेव पृष्टम्, धूमपानं कुर्वता पुरुषेण तस्मिन्नेव काले देवस्मरणं प्रार्थनं वा कर्तुं शक्यं वा? इति। तद्गुरवः प्रत्यवदन् – आम् वत्स, तत्र नास्ति कोऽपि दोषः, तत्तथैव भवेत्, इति।”

अत्र एकस्य पुरुषस्य मनः देवस्मरणसमये अपि कर्मणि निमग्नमस्ति। अन्यस्य पुरुषस्य मनः कर्मणि निमग्नमपि देवस्मरणरतमेवास्ति। गुरोः पुरस्तात् किमपि वदामश्चेत् मुक्तेन मनसा तत् पृष्टव्यं भवति। मनसि आदावेव काञ्चिद्भावनां निर्धारं वा निधाय प्रच्छामश्चेत् गुरूणां वचसामर्थम् अस्मदिष्टरूपेणैव विपरिणम्य वेत्तुं प्रयतामहे। अस्य विपरिणामान् कालान्तरे वा अनुभोक्तुम् अस्माभिः सिद्धैर्भाव्यं स्यात्। तदानीमेव अस्माकमपराधं वयं विद्मः, किन्तु तेन प्रयोजनं नैव भवति, अतीतकालत्वात्। अत एव मुग्धमनसा एव गुरूणां दर्शनं कार्यं, तेषां वचसां वास्तविकार्थचिन्तनमपि कार्यम्।

सर्वेणापि शिष्येण पृष्टस्य प्रश्नस्यैकस्य एकरूपमेवोत्तरं गुरुमुखादायातीति नास्ति नियमः। प्रत्येकं जनस्य मानसिकीं सिद्धतां विदित्वा एव गुरुरुत्तरति। बहोः वर्षेभ्यः धूमपानासक्तं कमपि पुरुषं साक्षात् धूमपानं त्यजत्विति गुरुर्न वदेत्। तदन्यथा क्रमेण तस्य धूमपानाभ्यासनिर्मूलनार्थं सूचयेत्। धूमपानकालेऽपि प्रार्थयितुं शक्यते इति वदता गुरुणा धूमपानकालेऽपि धूमपानिनः मनः प्रार्थनायां मग्नं भवत्विति आशा अभिव्यक्ता। प्रार्थनायामेव मनः यदा संलग्नं भवति तदा क्रमेण धूमपाने आसक्तिः नश्येदिति गुरुराशास्ते। एवमेव यदि सः धूमपानी जनः दृढबुद्धिवानभविष्यत्तर्हि गुरुस्तं धूमपानं त्यजेति साक्षादवदिष्यत्।

स्तन्यपानमप्यत्यजता शुशुना मांसभक्षणमशक्यं ननु? दत्तेऽपि मांसे शिशुस्तं क्षिपेत्। अनयैव रीत्या गुरुरपि शिष्यस्य मानसिकीं दैहिकीं च परिपक्वतां मनसि निधायैव उपदिशति। शिष्यस्य संस्कारानुगुणं स्वभावानुगुणं वा भवति गुरूपदेशः।

अनया कथया धूमपानं नैव कुर्वन्त्विति उपदेशमेव कुरुते अम्बा। धूमपानं कस्यचिदेकस्य मनोरञ्जनाय स्यात्, किन्तु जनान्तरं प्रति धूमः अनारोग्याय स्यात्। अत एवानन्दः वस्तुषु नास्ति किन्तु मनसि विद्यते इति वेद्यते।

कदाचित् गुरुः किञ्चिदपि कर्म अकुर्वाणं निर्लज्जम् अलसं प्रति वदेत् ‘आलस्यादपि चुराकर्म श्रेयस्करम्’ इति। तन्नाम केवलं अन्नपाननिद्राभ्यः यद्वा कर्मकरणं श्रेयस्करमिति गुरुवाक्यस्य सारं वेत्तुं शिष्यः शुद्धबुद्धिवान् स्यात्। तमसि निमग्नं प्रति रजोगुणमाप्तुं गुरुः प्रेरयन्नस्ति अत्र। तमसि निमज्जनापेक्षया रजसः रभसः श्रेयस्करः। तन्मूलकं सात्त्विकमपि पदं पुरुषः आप्नुयात्। गुरूणां वाक्यानामर्थः एवं रीत्या शोधनीयः।

श्रुतस्य विषयस्य सम्यगवगमनार्थम् अस्मासु मुग्धता स्यात् । मुग्ध एव जनः सर्वत्र सात्त्विकतामवलोकयते । अनेनैव मुग्धेन मनसा भगवद्दर्शनमपि शक्यम् । सात्त्विकता एव भगवन्नाम्ना कथ्यते, भगवांश्च लोके सर्वत्र वस्तुषु विद्यत एव । केवलं तद्द्रष्टुं योग्ये नयने अपेक्षेते तावदेव । विज्ञानिनो वदन्ति सर्वमिदं शक्तेः निर्मितम्, शक्तिमयं जगदिति । अस्माकं पूर्वजा ऋषयः ऊचिरे “सर्वं ब्रह्ममयम्” इति । इत्थमेव तद्ब्रह्म वस्तु सर्वत्र द्रष्टुं वयमपि पारयामः, यदि तादृशं मनः चक्षुश्च अस्मदीयं स्यात् । अन्येषु सात्त्विकतां पश्यद्भिः स्वयमेव वस्तुतः आनन्दः अनुभूयते । कस्यचित् विषये यदि वयं प्रीतास्तर्हि अस्माकमेव मनसि जायते आनन्दः । श्रद्धावानेव लभते सर्वम् । अथापि, यदि पूर्वनिश्चितचिन्तनैः सह यदि विषयमेकं श्रुण्मः, तदा वस्तुनिष्टता नायाति अस्माकमवगमने । शुद्धज्ञानस्य अन्वेषक एव शुद्धज्ञानमाप्नोति । अनेकेषां चक्षुषी वर्णमय-उपनेत्रेणावृते, अत एव ते सत्यं द्रष्टुं न पारयन्ति । अस्माकं मनसि विद्यमानमेव चित्रं बाह्ये जगति वस्तुरूपेण परिणमते ।  

एकदा, मद्यपानविरोधि-आन्दोलनं चालयितुकामः कश्चन भिषक् ग्राममेकमगच्छत् । तत्र केषाञ्चन मद्यपानिनां गणमेकं संयोज्य, मद्यपानस्य दुष्परिणामान् विवृण्वन् उपन्यासं प्रादात् । यदा तस्य वचसां निष्प्रयोजकत्वं सः भिषक् विदितवान्, तदा साक्षात् परिणामप्रदर्शनद्वारा तान् अवबोद्धुम् उदयुङ्क्त । चषकद्वयमानीय एकस्मिन् शुद्धं जलम् अपरस्मिन् मद्यं च पूरितवान् । ततः प्रत्येकं चषके कृमिमेकं संस्थापितवान् । जले निमग्नः कृमिः आनन्देन अतरत्, मद्ये निमग्नश्च वेदनया शरीरं विधुन्वन् अन्ते च प्राणान् अत्यजत् । इदं पश्यतां मद्यपानिनां मुखे विद्यमानं  आश्चर्यभावं दृष्ट्वा ‘अन्ततो गत्वा एते मद्यपानस्य घोरं परिणामम् अविन्दत’ इति भिषक् अतुष्यत् । क्षणमेकं तूष्णीं स्थित्वा पुनरप्राक्षीत् “अनेन प्रदर्शनेन भवन्तः किमधीतवन्तः?” इति । तेषु कश्चित् महान् सुरापः कष्टेन शरीरं सन्तुलयन् अवदत् “अद्भुतम् ! अहो आश्चर्यम् ! सर्वेपि दृष्टवन्तः ननु? सुरायां पतितः कृमिः मृतः, तद्वदेव सुरापानेन उदरे विद्यमानाः सर्वेऽपि कृमयः नश्यन्ति” इति ।

तद्वदेव पूर्वनिश्चिताभिप्रायैः यदि वयं विषयमेकमवगन्तुं यतामहे, तर्हि तदन्तर्निहितार्थं वेत्तुं न पारयामः । अस्माभिः श्रुतस्य विषयस्यापि अस्मन्मनसि पूर्वमेव विद्यमानविषयानुगुणं विवररणं करिष्यामः । अथापि शुद्धेन मनसा मुग्घया भावनया यदि चिन्तयामः तर्हि वस्तुस्थितिमवगन्तुं शक्नुमः । यथा विद्युत् अन्धकारे वस्तूनि प्रकाशयति, तद्वदेव मुग्धता अपि मार्गं प्रकाशयति ।

कदाचित् गुरूणां वचसां वास्तविकार्थं न वयं विद्मः, तन्न गुरूणां वचसां मितिः, किन्तु तदवगमनशक्तिविरहः अस्माकमेव क्षतिः । वयं मनोबुद्ध्योः स्तरे एव चिन्तयामः, ततः परं न यामः । अनेकेषु विषयवस्तुषु सक्तत्वात् अस्माकं दृष्टिः क्षीणा वर्तते । अजाते गुरूणां वचसाम् अर्थावबोधे अपि यदि तद्वचः अविचार्य अनुवर्तामहे तर्ह्यपि गम्यमेतुं शक्नुमः । कदाचित् गुरुः शिष्यं तर्जयेत्, तत्तु न कोपेन । देहे विद्यमानायाः क्षतेः चिकित्सावेलायामादौ तस्याः शुद्धीकरणं कार्यं, यच्च वेदानापूर्णं भवति । वेदनापूर्णमिति तत्त्यक्त्वा यदि चिकित्सामः तर्हि क्षतिरेव व्रणायेत । एवमेव गुरुरपि दोषाणां निर्मूलनार्थं कदाचित् तर्जयेत् । स अस्मान् परिपूर्णान् विधातुमेव नितरां यतते ।

भारतीयाः सन्तोऽपि भारतीयमेव सनातनधर्मं विमृशतां, कदाचित् निन्दतां विषये माता जानात्येव तेषां निन्दकानां भणितिरस्ति – “ हैन्दवाः प्राचीनकालिका जना हैन्दवानां श्रद्धाऽपि नैतत्कालिका तेऽधुनापि प्राक्तना इव वानरं, गजमुखं च पूजयन्तिइति अथ अस्मासु कति जना एतस्याः पूजायाः, तद्देवतामूर्तीनां च वैज्ञानिकं तत्त्वं विदन्ति ? कति नाम जनाः तद्वेत्तुं प्रयत्नं व्यधासिषुः? यदि कश्चिदिदं जिज्ञासुः, तर्हि तस्य को वा मार्गः स्यात् ? इमे सन्ति विषया अद्य जिज्ञासितव्याः

विदेशप्रवासवेलायां कदाचिन्माता तत्रत्यानां जनानां गृहेषु भित्तौ नैकानि चित्राणि दृष्टवती कस्मिंश्चित् गृहे माता एकं चित्रमपश्यत् यत्र केवलं वर्णद्वयं वा त्रयं वा उपयुज्य लिखिताः षट् रेखाः आसन् तद्यथा, कश्चित् मार्जनीं वर्णपात्रे निमज्य पत्रे तन्मार्जनीं चालितवानिव आसीत् माता क्षणमेकं तच्चित्रं किमिति नावगतवती एव विचारिते सति इदं ज्ञातं यत्तस्य चित्रस्य मूल्यमस्ति ५,००,००० डालर् इति ! चित्रमिदं चेरेभ्यो रक्षणार्थं तद्भर्ता रक्षकमेकम् अपि च रक्षणच्छायाग्राहकाणि च नियोजितवानासीत् यद्यपि तच्चत्रं वयं तावत्किमपि नावगतवन्त एव, अथापि तच्चित्रस्य स्वामी तावत् तदधिकृत्य होराधिकं कालं यावत् उपन्यस्तुं अशक्ष्यत् तच्चित्रकर्तारं कलाविदं न केऽपि मूर्खम् अमन्वत, किन्तु तं महान्तं कलाकारं मन्यन्ते सर्वे जगति असङ्ख्याकेषु भुभुक्षितेषु सत्स्वपि त्वं तद्विहाय एतच्चित्रं प्रति किमर्थं तावद्धनं अव्ययः ? इति तत्स्वामिनं न कोऽपि अपृच्छत् सामान्येन नावगन्तुं शक्यमिति कारणात् चित्रस्य मूल्यं तु न हीयते तद्वदेव यः खलु उपवर्णितस्य हनूमतः चित्रस्य अन्तर्विद्यमानं तत्त्वं वेत्ति, स तस्य महत्त्वं मूल्यं च अवगन्तुं शक्नोति

हनूमतः चित्रणस्य आन्तरिकं तत्त्वं, गणपतेः चित्रणस्य सन्देशं वा पश्यामश्चेत् भारतीयानामस्माकं प्राचीनानां ज्ञानमनुभवश्व कियान् विसृत आसीदिति मनो मोमुदीति

देशान्तरस्थजनानां आन्तरिके विषये अधिवक्तुं मातुर्नास्ति कापि इच्छा किन्तु, देशान्तरेषु अटन्तीं तां तत्रत्या जनाः कदाचित् एतादृशः विषयान् पृच्छन्ति माता सामान्येन न किमपि प्रतिवदति तान्, यतः सर्वेऽपि तदधिकृत्य स्वकीयान् विचारानाधातुं स्वतन्त्रः समर्थश्च इमान् विषयान् देशिकाः स्वस्मासु पूर्वं विचिन्त्य तदनन्तरं निर्णयेयुः अथापि एकं विषयं माता स्वकीयामेरिकादेशप्रवासानुभवमाधृत्य अनुक्त्वा न विरमति यत्, वस्तूनां मूल्यं हि भारते अमेरिकादेशादपेक्षया अधिकतरम् एधमानं वर्तते इति

वैदेशिकाः भारतीया इव न अलसाः यत्किमपि साधु कर्म कर्तुं ते सर्वदा सज्जा एव अत्र भारते यथा मासि विंशतिदिनानि यावत् कर्मसन्यासो भवति तद्वत् तत्र तु नास्त्येव (अत्र जनाः अवशिष्टेषु दशदिनेषु कर्म कुर्वन्ति वा इति तु संशयावहो विषयः) किन्तु इमे एव भारतीयाः देशान्तरं गच्छन्ति, तदा तु आत्मानः परिवर्तयन्ति प्रतिदिनं द्वाविंशतिहोराः यावत् कर्म कर्तुमपि न विचेतन्ते तदधिकहोराः कर्म कुर्वन्तोऽपि जनान् जानाति माता तत्र सन्ति भारतीयाः ये २२ घण्टां यावत् कर्म कृत्वा, तदनन्तरं गृहं गत्वा, पक्त्वा, भुक्त्वा ततः परं सान् रामन् आश्रमं यान्ति सेवाकरणार्थम् अतो वयं भारतीया यदा देशान्तरं गच्छामः, तदा अधिकाधिकं श्रमं वोढुं नाधिकं विशङ्केम

जपान देशे स्त्रियः तासां पतीन् तर्जयन्ति यदि ते दिने न्यूनातिन्यूनं १२ घण्टाः यावत् कर्म न कुर्वते यदि पतिः कालेन पूर्वं गृहमायाति, तर्हि इमाः पृच्छन्ति आर्य! किमर्थं एतावत् शीघ्रमागतवान् गृहम्! इति तद्विपरीततया अत्र भारते अष्टौ घण्टाः यावत् कर्मकरणमपि संशयाय भुक्त्वा, सुप्त्वा, चायं पीत्वा, कति घण्टाः अवशिष्येरन् कर्मणे? अन्येषां देशानां प्रगतौ तद्देशस्थानां जनानां कठिणपरिश्रमः, कर्मश्रद्धा, आत्मसमर्पणमेव कारणम्

अत्रापि भारते यद्यपि महान्तो बुद्धिमन्तः कुशलिनो जनाः विलसन्ति, अथापि तेषाम् आलस्यं तु तान्नोद्धर्तुं सहकुरुते आत्यन्तिकं चिन्तनं भवति तेषां यदहं कथं न्यूनातिन्यूनं कर्म कुर्याम्, कथञ्च अधिकाधिकं सम्पादयेयमिति यत्र जना स्वदेशस्य भाग्यद्वारपाटनाय स्वभागधेयं दातुं नोत्सहन्ते, तद्देशस्य का वा प्रगतिः शक्येत!? यदि वयं प्रगच्छामश्चेदपि तद्रक्षितुं वयमसमर्था एव भवेम अत एव भारतमधुनाऽपि समेधमानं राष्ट्रमेव, न तु समृद्धं राष्ट्रम् यद्यप्येषु दिनेषु वयं जागृताः, अथापि शय्यातलं विहाय नोत्थिताः स्मः केवलं जागृतिर्नालं, किन्तु कर्म करणमपेक्षते भवतु भारतमन्येषां देशानां प्रगतिसरणौ देदीप्यमानो दीपः  

प्रश्नः – मातः, आबहोः कालाद्भवती भारतवर्षस्य सर्वाणि राज्यानि, अन्यानि राष्ट्राणि च गत्वा तानि पश्यन्ती वर्तते । एषु वर्षेषु यूरोपराष्ट्रेषु अमरिकायां च कानि परिवर्तनानि दृश्यन्ते ?

अम्बा – पुत्राः, माता कदापि भारत-अमरिकयोर्मध्ये उत भारत- युरोपयोर्मध्ये भेदं गणयति । अत्रत्याः तत्रविद्यमानाश्च सर्वेऽपि पुत्रा मदीया एव । अथापि पश्चिमराष्ट्राणां संस्कृतिः अस्मत्संस्कृतेः भिन्ना वर्तते । विविधराष्ट्राणां स्वाभाविकं प्राकृतिकवातावरणम्, आर्थिकी स्थितिः, भावनात्मकविषयेषु साधिता पक्वता च संस्कृतेः जनानां च निर्माणं विधास्यति । अवश्यं अत्रोक्तेषु क्षेत्रेषु राष्ट्राणां मध्ये भेदः विद्यत एव । अत्र भारते पथिषु वाहनानि वामभागे चलन्ति, अमरिकायां तावत् दक्षिणभागे यान्ति । एवं रीत्यैव सांस्कृतिकभिन्नतापि भारतामरिकयोर्मध्ये विद्यते ।

यद्वा भवतु, सर्वत्रापि देशेषु प्रेम्णः शान्तेश्च स्वभावः समान एव । राजकीयकारणादुद्भूताः सीमानः इदं सत्यं न निवारयितुं क्षमाः । गोः दुग्धं यत्र क्वापि वा भवतु श्वेतरूपेणैव भाति – भारते अमरिकायाम् यूरोपराष्ट्रेषु वा । अग्नेः स्वभावोऽपि सर्वत्र समान एव । तद्वदेव मधु सर्वत्र मधुरमेव भवति । तथैव शान्तेरनुभवोऽपि समानो भवति सर्वत्र देशेषु । भाषा, सामाजिकी स्थितिः, वर्गभेदो वा न कदापि शान्तेः पेम्णश्चानुभवं रोद्धुम् अन्यथाकर्तुं वा समर्थाः । इदमेव मातरं तस्याः पुत्रैः सह निबध्नाति विश्वस्मिन् विश्वे । माता तदुभयमेव सर्वत्र दिदृक्षति ।

बहुवर्षेभ्य अर्जितेनानुभवेन अम्बा वक्तुमुत्सहते यत् एषु दिवसेषु यूरोप- अमरिकयोः खण्डयोर्जनानां आध्यात्मिकासक्तिरेधमाना दृश्यत इति । तत्रत्या जनाः स्वजीवने सकलमपि स्वातन्त्र्यमनुभवन्ति । कृष्णं चर्म अपि श्वेतं कर्तुमिमे जनाः समर्थाः, अथ च श्वेतं चर्म कृष्णरुपेण परिणमयितुमपि । स्त्री काचित् पुरुषरूपेण परिणाममेतुं क्षतमे, पुरुषः स्त्रीरूपेणापि । वयसः कारणात् मुखे समुद्भूतानि चिह्नान्यपि शस्त्रक्रियया समीकर्तुं कुशला इमे । स्वशिरसः केशराशेः कञ्चनभागं नीलवर्णेन, कञ्चनभागं पीतवर्णेन, अथ कञ्चिद्भागं रक्त्तवर्णेनापि रञ्जयितुं समर्थाः । वस्तुतः केशान् येनकेनापि वर्णेन वर्णनं शक्यमत्र । स्त्री स्त्रियमेव वोढुमवकाशोऽस्ति, पुरुषश्च पुरुषम् । नगरान्नगरं प्रति वासपरिवर्तनं तु अतिसामान्यम् । स्वेच्छया वस्त्राणि धर्तुं कश्चिदत्र पारयति । परन्तु लब्धेऽपि एत्रादृशे  स्वेच्छापूर्णे स्वातत्र्ये इमे जनाः खिद्यन्ते भ्रमनिरसनञ्चानुभवन्ति । अनेन तैरनुभूतमेकं सत्यं तथ्यमस्ति यत् स्वातन्त्र्यं नाम तन्न भवति यद्बहिष्ठं, किन्त्वान्तरिकमेव स्वातन्त्र्यं स्वातन्त्र्यं भवतीति । तत्तु स्वेनैवान्वेष्टव्यं भवति । इदमेव तान् अन्तर्मुखीकरोति, अध्यात्मिकोन्नत्त्यै च प्रेरयति । वस्तुपूर्णं भौतिकं जगद्विहाय तेऽद्य आध्यात्मजगदुत्प्रेक्षन्ते । पाश्चात्याः भारतीयसंस्कृतिमधीयानाः सन्ति एषु दिनेषु । तद्विरुद्धदिशि भारतीयाः अध्यात्ममार्गं विहाय भौतिके जगति नितरां रुचिमापन्नाः पाश्चात्यानुकरणरताश्च विराजन्ते । पाश्चात्यैर्यत् निष्ठीवितं तदेव महाप्रसाद इति आमनन्तो वयं स्वदामहे । वस्तुजगति सुखं नास्तीति विदित्वा ते तत्त्यक्तुमासक्ताः, वयं च तदेव वस्तुजगदालिङ्गितुमुद्युक्ताः । जीवनमूल्यानां तिरस्कृतिरस्माभिर्भारतीयर्विधीयमाना विद्यते, पाश्चात्त्यास्तावत् तान्येव मूल्यानि आत्मसात्कर्तुं यतमानास्सन्ति ।

आत्मने बोधितस्य विषयस्यावगमनार्थं ते यतन्ते, अथ अत्र भारते तावद्बालाः यद्यपि चतुराः अथापि श्रुतस्यावगतस्यापि विषयस्य अङ्गीकारं न कुर्वन्तः सन्ति (अथाप्यत्र सर्वेऽपि भारतीयबालकास्तादृशा इति माता न वदन्ती अस्ति ) । पाश्चात्त्याः यदि विषयमवगच्छन्ति, तत्सत्यमिति च विदन्ति चेत्तस्य स्वीकारे व्रीडां न कुर्वते । तेषां भौतिकोन्नतये अपि इदमेव कारणमिति कश्चित् वक्तुं शक्नोति ।

भारतस्य वास्तविकी सम्पद्भवति तस्य संस्कृतिः । अत्रत्या जनाः तद्वेत्त्तुं नोत्सहन्ते इति विषीदति मनः । प्रज्ञासागरस्यान्तः इमे जना  न निमज्जन्ते । देवालयाः एव तेषां भक्तेर्भावस्य च एकैवाधारशिला । तेषां श्रद्धा अपि अन्तरन्तः दृढतरमूलवती नास्ति । अत एव  अस्याः संस्कृतेः वैज्ञानिकं प्रतिपत्तिमाप्तुं अत्रत्या जनाः सिद्धा भवेयुः ।

इमामेव संस्कृतिम् अधीत्य पाश्चात्त्याः तथ्यमव्चगत्य तेनैव तथ्येन नितरां निबद्धा अविचलिताः सन्तः प्राणन्ति । किन्तु अस्माकं भारतीयानां जीवनपद्धतिरेव एतद्विरुद्धदिशि प्रवर्तमानाऽस्ति । पूजागृहे पूजन्तं पितरं दर्शं दर्शं शिशुः तमेवानुसरति, पितुः करग्राहं प्रदक्षिणां कुरुते च । स एव शिशुः प्रवृद्धस्सन् स्वपुत्रमपि इदमेव शिक्षयति । उभावप्येते न जानीतः किमर्थम् इदं कर्म करणीयम्, एतस्य तथ्यं किमिति च । अद्यत्वे एतादृशी काचिच्छोशनीया स्थितिरुद्भूताऽस्ति यत्, भारतीयसंस्कृतिं वेत्तुं भारतीयाः पाश्चात्त्यैर्लिखितान् ग्रन्थान् अधीयीरन्निति ।

अध्यात्मिकोन्नतेः सरलो मार्गः विद्यते गुरोरङ्घ्रिपद्मयोरात्मनः सम्पूर्णतया समर्पणम्। संशयलेशं विना गुरुवाक्यमेवानुसरणीयं नितराम्। कार्यममुं कर्तुं तत्सहकारि मनः अस्माभिराप्तव्यम् । एतदनन्तरं वस्तुतः सर्वमपि सुलभायते।

गुरुर्यद्वा उपदिशतु नाम, शिष्यस्य मनसि तावत् स्वार्थपूर्णा इच्छा एव जागर्ति , तदनुसारमेव शिष्यः प्रवर्तते कर्मणि। तत्परिणामेन सः दोषानपि समाचरति, ये च दोषाः दुःखहेतवो भवन्ति भाविनि काले। प्रायः तदानीमेव स वेत्ति यत् तस्य कर्माणि तन्मनोनुगुणान्यासन्नतु गुरुवचनानुगुणानि। इदं वास्तवज्ञानं  ततः परं गुरुवाक्यानुसारणे प्रेरणादायि भवति। गुरुशरणागतिभावेन या शान्तिः यश्च आनन्द अवाप्यते केनचित्, तावेव शान्त्यानन्दौ ततः परं तच्छरणागतिभावम् ततोऽपि वर्धयितुं तं प्रेरयतः। तदानीमेव शिष्यः स्वमनोकामनाः गुरुचित्तानुसारं परिवर्तयितुं समर्थो भवति। श्रद्धापूर्णेन प्रयत्नेन शिष्यस्य अन्तः विद्यमानः आत्मगुरुः अवबुद्धो भवति। किन्तु तदर्थं शिष्यः अवश्यं श्रद्धधानः, सहनापूर्णः, शरणागतिभावयुक्तः आशावादी च भवेत्।

अध्यात्माध्वगाः दोषान् कुर्युरेवेति सामान्यो विषयः। अथापि दोषेणापहतचेतः सन् न कश्चित् विरमेत्, यतो दोषैरेव भवति कश्चिन्मनीषी। पङ्के खलु पङ्कजोत्पत्तिः?  दोषान् कृत्वाऽपि तत्समीकरणार्थं यदि न यतेम, तर्हि स भवति महान् दोषः। पदक्रमणं कुर्वन् ननु शिशुः स्खलति पतति च? पतति, पुनरुत्तिष्ठति, पुनः पतति- अथापि यत्नेन न विरमति। शिशोः श्रद्धा तावत् मातुरुपरि, या सर्वदा पतिते शिशौ करुणापूर्णा, निरन्तरप्रयत्नाय प्रेरणादायिनी च। तथैव श्रद्धावन्तं पुरुषं भगवानपि सर्वेभ्योऽपि भयेभ्यः रक्षति। अहङ्कारवशात् कदचित् शिष्यः नेमां करुणां विजानीयात्। अथापि यदि सः मुग्धः, शुद्धहृदयः, विनयशीलश्च भवति तर्हि कालान्तरे सर्वमपि तेनावगतं भवति।

अस्माकं शरीराणि प्रवृद्धानि नास्माकं मनांसि। यदि मनः प्रवृद्धिमियात्तर्हि  शिशोर्मनः इव मुग्धता तत्र भवेत्। तादृशीं मुग्धतामाप्तुं विद्यारम्भकालिकी श्रद्धा सर्वदा अस्मासु भवेत्। सर्वमपि जानामीति चिन्तयन् मानवः नैवैधते नापि ज्ञानमाप्नोति। यदि किञ्चित् पात्रं सर्वात्मना पूर्णं तत्तर्हि तस्मिन् किं वा नूतनं द्रव्यं अन्तर्भवितुमर्हति? कुम्भोऽपि यदा कूपजले निमग्नो भवति तदैव खलु स्वान्तः जलं पूरयितुं प्रभवति? नोबेल् (Nobel) पुरस्कारभागपि यदि नूतनतया वेणुवादनमध्येतुं काङ्क्षति तर्हि तेनापि गुरुः शरणीगन्तव्य एव। लौकिके जीवने कश्चित् महान्विज्ञः स्यान्नाम, अथापि अध्यात्मिकक्षेत्रे सः बालवदेव स्यात्। गुरुपादयोर्नतिं विना अस्मिन् जगति अध्यात्मविज्ञानज्ञानोपायः न कश्चिद्विद्यते। एकयैव कुञ्चिकया न कश्चित् सर्वाण्यपि कीलकानि उत्कीलयितुं पारयति। गुरुशरणागतिं विना अध्यात्ममार्गे अङ्गुलिप्रमाणिका अपि प्रगतिः नैव शक्या ।

मुग्धया भावनया ज्ञानार्जनकाङ्क्षया च यदि कश्चित् गुरुमुपसर्पति तर्हि ब्रह्मज्ञानावाप्तौ न किञ्चित् कष्टमनुभवति सः अध्यात्मज्ञानभाण्डागारस्योद्घाटनमेव गुरुशरणागत्या भवति।

भगवदवगमने श्रद्धा, विनयश्च शिष्याय मुख्ये सम्पदौ। आदाविदम् आत्मसु उद्भावयन्तु। तदानीमेव वयं सर्वस्यापि ज्ञानस्य ग्राहका भवामः, तेनैव पूर्णाश्च भवेम। आत्मज्ञानं सर्वासु अस्मासु स्वयमेव पूर्यमाणं वर्तते; यद्यपि बहुशो वयं तद्विद्यमानं नावैमः।